भविष्यपर्व, अध्याय 53: देवासुरयुद्धे, Verse 1
देवासुरयुद्धाद्यारंभे सनकाद्यागमनम् As the battle begins between deva-s and asura-s, the coming of sanaka etc. देवानां असुरैः सह द्वन्द्वयुद्धं, भीषणानि उत्पातानि, ब्रह्मणः सनकादीनां योगेश्वराणां च युद्धस्यावलोकने आगमनं वैशम्पायन उवाच ।
ततः प्रवृत्तोऽसुरदेवविग्रह- स्तदद्भुतो भाति सुरासुराकुलः ।
वेलामतिक्रम्य युगान्तकाले महार्णवान्योन्यमिवाश्रयन्तः ॥ १॥