भविष्यपर्व, अध्याय 52: वामनप्रादुर्भावे, Verse 1
देवसैन्यानां युद्धोद्योगः Deva-s prepare for battle वैशम्पायन उवाच ।
श्रुतस्ते दैत्यसैन्यस्य विस्तरो जनमेजय ।
भूयस्त्रिदशसैन्यस्य शृणु विस्तरमादितः ॥ १॥
Containing 65 sacred Sanskrit shlokas with multi-author commentaries and translations.
देवसैन्यानां युद्धोद्योगः Deva-s prepare for battle वैशम्पायन उवाच ।
श्रुतस्ते दैत्यसैन्यस्य विस्तरो जनमेजय ।
भूयस्त्रिदशसैन्यस्य शृणु विस्तरमादितः ॥ १॥
सुराधिपस्तु भगवानाज्ञापयत वै सुरान् ।
मरुद्गणास्तथादित्यान् विश्वान्देवांश्च वासवः ॥ २॥
वसूनष्टौ भृशं सर्वान् यक्षरक्षोमहोरगान् ।
विद्याधरगणान्सर्वान्गन्धर्वांश्च महाबलान् ॥ ३॥
महार्णवांश्च शैलांश्च तथा रुद्रान् महौजसः ।
यमवैश्रवणौ चोभौ वरुणं च जनाधिपं ४ ॥
ये तु सिद्धा महात्मानः पितरश्च मनस्विनः ।
राजर्षयश्च शतशो योगसिद्धास्तथैव च ॥ ५॥
त्रिदशाज्ञापकः शक्र आज्ञापयति वीर्यवान् ।
भवन्तो दैत्यनाशाय सन्नह्यन्तामिति प्रभुः ॥ ६॥
शक्रस्य वचनं श्रुत्वा ततः सर्वे दिवौकसः ।
सन्नह्यन्त महात्मानः शक्रस्य समविक्रमाः ॥ ७॥
नानाकवचिनः सर्वे विचित्रकवचध्वजाः ।
नानायुधोद्यतकरा मत्ता इव महागजाः ॥ ८॥
केचिदारुरुहुर्व्याघ्रान् केचिदारुरुहुर्गजान् ।
केचिदारुरुहुर्नागान् केचिदारुरुहुर्वृषान् ॥ ९॥
हरिनेत्रो हरिश्मश्रुर्द्विरदैरावृतध्वजम् ।
रथं हरिहयैर्युक्तं स प्रायात् समरं प्रति ॥ ३.५२.१०॥
आदित्यवर्णं विरजं सुधौतं त्वष्ट्रा स्वयं निर्मितमीश्वरार्थम् ।
जालैश्च जाम्बूनदभक्तिचित्रै- रलङ्कृतं काञ्चनदामभिश्च ॥ ११॥
सकूबरोपस्करबन्धुरेषं विद्युत्प्रभाभिः कृतमाभिताम्रम् ।
कैलासशृङ्गोपमन्द्रियानं सुचारुचारु प्रतिचक्रचक्रम् ॥ १२॥
तारासहस्रैः खचितं ज्वलद्भि- र्देवार्हमाल्यार्चितसर्वदेहम् ।
समुच्छ्रितश्रीध्वजमक्षयाक्षं प्रज्वाल्यमानं पुरुषोत्तमेन ॥ १३॥
आस्थाय तं भास्करमाशुवेगं शचीपतिर्लोकपतिः सुरेशः ।
वज्रस्य धर्ता भुवनस्य गोप्ता ययौ महात्मा भगवान् महेन्द्रः ॥ १४॥
आमुच्च वर्माथ सहस्रतारं हुताशनादित्यसमप्रभावम् ।
सूर्यप्रभं चामुमुचे किरीटं मालां च जाम्बूनदवैजयन्तीम् ॥ १५॥
त्वष्ट्रा कृतं भास्कररश्मिदीप्तं सुतीक्ष्णघोरामलतीव्रधारम् ।
महासुराणां रुधिरार्द्रमुग्रं प्रगृह्य वज्रं शतपर्व भीमम् ॥ १६॥
महाशनी द्वे च महाग्रहाभे दीप्ताममोघां च सशक्तिमुग्राम् ।
चक्रं तथैन्द्रं सुमहत्प्रतापं प्रगृह्य शक्रः प्रययौ रणाय ॥ १७॥
सहस्रदृग् भूतपतिः सनातनः सनातनानामपि यः सनातनः ।
खड्गं च देवाधिपतिर्महात्मा वैयाघ्रमादाय च चर्म चित्रम् ॥ १८॥
क्षीरोदधिक्षोभसमुच्छ्रितानि पुरामृतादुत्तमभूषणानि ।
देवासुराणां श्रमनिर्जितानि सोमार्कनक्षत्रतडित्प्रभाणि ॥ १९॥
दत्तान्यदित्या मणिकुण्डलानि युद्धे प्रयातस्य सुरेश्वरस्य ।
तैर्भूषितो भाति सहस्रचक्षु- रुद्योतयन् वै विदिशो दिशश्च ॥ ३.५२.२०॥
हरिः प्रभुर्नेत्रसहस्रचित्रो विभाति युद्धाभिमुखः सुरेन्द्रः ।
यया सितं शारदमभ्रकल्पं नभस्तलं ह्यृक्षसहस्रचित्रम् ॥ २१॥
स्तुवन्ति यान्तं विपुलैर्वचोभि- र्जयाशिषा चोर्जितसत्त्ववीर्यम् ।
अत्रिर्वसिष्ठो जमदग्निरूर्वो बृहस्पतिर्नारदपर्वतौ च ॥ २२॥
तमन्वयुर्देवगणा महेन्द्रं प्रयान्तमादित्यसमानवर्चसम् ।
विश्वे च देवा मरुतस्तथैव साध्यास्तथाऽऽदित्यगणाश्च सर्वे ॥ २३॥
ते देवराजस्य पुरन्दरस्य हयाश्च ये मातलिसङ्गृहीताः ।
प्रयान्ति देवेश्वरमुद्वहन्तो नभस्तलं पद्भिरिवाक्षिपन्तः ॥ २४॥
ब्रह्मर्षयश्चैव महर्षयश्च राजर्षयश्चाक्षयपुण्यलोकाः ।
सर्वेऽनुजग्मुः सहसा ज्वलन्तं तेजोऽन्वितं शक्रममित्रसाहम् ॥ २५॥
प्रगृह्य शूलांश्च परश्वधांश्च दीप्तानि चापान्यशनीर्विचित्राः ।
वर्माणि चामुच्य हिरण्मयानि प्रयान्ति सूर्यांशुसमप्रभाणि ॥ २६॥
तथा कुबेरोऽश्वसहस्रयुक्तं श्रेष्ठं रथं सर्वसहं महार्हम् ।
दिव्यं समारुह्य रणाय यातो धनेश्वरो दीप्तगदाग्रहस्तः ॥ २७॥
निशाचराः पावकधूमकाया रक्षोवृषा रुद्रसखस्य तस्य ।
विशालनानायुधदीप्तहस्ता यान्त्यप्रतो वैश्रवणस्य राज्ञः ॥ २८॥
ते लोहिताक्षाः परिवार्य देवं व्रजन्ति भिन्नाञ्जनचूर्णवर्णाः ।
यक्षोत्तमा यक्षपतिं धनेशं रक्षन्ति वै पाशगदासिदस्ताः ॥ २९॥
पुण्यः प्रभुः प्राणपतिर्जितात्मा वैवस्वतो धर्मभृतां वरिष्ठः ।
तडिद्गणाभं शतवाजियुक्तं रथं समारोहत सूर्यकल्पम् ॥ ३.५२.३०॥