भविष्यपर्व, अध्याय 51: वामने, Verse 1
सुरासुरयुद्धे बलेः स्वयमुद्योगवर्णनम् In the war between sura-s and asura-s, bali prepares for battle अनुह्रादश्च तत्रैव दैत्यः परमदुर्जयः ।
हिरण्यकशिपोः पुत्रः प्रययौ युद्धलालसः ॥ १॥
Containing 94 sacred Sanskrit shlokas with multi-author commentaries and translations.
सुरासुरयुद्धे बलेः स्वयमुद्योगवर्णनम् In the war between sura-s and asura-s, bali prepares for battle अनुह्रादश्च तत्रैव दैत्यः परमदुर्जयः ।
हिरण्यकशिपोः पुत्रः प्रययौ युद्धलालसः ॥ १॥
चतुश्चक्रेण यानेन त्रिनल्वप्रतिमेन तु ।
युक्तेनाश्वैर्महावीर्यैः सिंहवक्त्रैरजिह्मगैः ॥ २॥
भीमगम्भीरनादेन नेमिघोषेण वीर्यवान् ।
चालयन् वसुधां सर्वां सशैलवनकाननाम् ॥ ३॥
विनर्दमाना दैत्यौघा अनुह्रादं ययुः शुभाः ।
शतं शतसहस्राणां रथानां हेममालिनाम् ॥ ४॥
परिघैर्भिन्दिपालैश्च भल्लैः पाशैः परश्वधैः ।
विविधायुधहस्तास्ते शूलमुद्गरपाणयः ॥ ५॥
सुवर्णजालनिर्मुक्तैर्वज्रैश्च समलङ्कृताः ।
रथैश्चित्रैश्च कवचैः सज्जमाना महासुराः ॥ ६॥
तदा विशालोच्छ्रितशैलरूपे बभौ रथे काञ्चनचित्रिताङ्गे ।
दैत्याधिपः सत्त्वबलानुरूपे समास्थितस्त्वप्रतिमे सुरूपे ॥ ७॥
विरोचनश्च बलवान् वैश्वानरसमद्युतिः ।
महता रथवंशेन सर्वास्त्रकुशलः शुचिः ॥ ८॥
व्यूहानां विनियोगज्ञो ज्ञानविज्ञानतत्त्ववित् ।
बलेः पितासुरवरः सुराणामिव वासवः ॥ ९॥
सर्वायुधसमोपेतं किङ्किणीजालभूषितम् ।
युक्तानां हाजिमुख्यानां सहस्रेणाशुगामिनाम् ॥ ३.५१.१०॥
रथमारुह्य दैत्येन्द्रो बभौ मेरुरिवापरः ।
किङ्किणीजालपर्यन्तं गजेन्द्रध्वजशोभितम् ।
सन्ध्याभ्रसमवर्णाभिः पताकाभिरलङ्कृतम् ॥ ११॥
प्रवालजाम्बूनदभक्तिचित्रं व्यालम्बिमुक्ताफलभूषितं च ।
रथं समारुह्य किरीटमाली ययौ स युद्धाय महासुरेन्द्रः ॥ १२॥
विरोचनानुजश्चैव कुजम्भो नाम दानवः ।
स्यन्दनैर्बहुसाहस्रैर्मणिकाञ्चनभूषितैः ॥ १३॥
वृतो मदबलात् सिक्तैर्देवारिभिररिन्दमः ।
प्रासपाशगदाहस्तैर्दानवैर्युद्धकाङ्क्षिभिः ॥ १४॥
स पर्वतनिभाकारो भिन्नाञ्जनचयप्रभः ।
महता भ्राजमानेन किरीटेन सुवर्चसा ॥ १५॥
सर्वरत्नविचित्रेण कवचेन च संवृतः ।
महता दीप्तवपुषा रथेनेन्दुरिवांशुमान् ॥ १६॥
शातकौम्भेन महता तालवृक्षेण केतुना ।
रराज रथमध्यस्थो मेरुस्थ इव भास्करः ॥ १७॥
रणपटुरतिवीर्यसत्त्वबुद्धिः सुरसमराभिमुखः प्रयाति तूर्णम् ।
असुरगणसमावृतः कुजम्भ- स्त्रिदशगणैरिव बृत्रहामरेन्द्रः ॥ १८॥
असिलोमा च तत्रैव दानवः पर्वतायुधः ।
दारुणं वपुरास्थाय दारुणो दारुणाननः ॥ १९॥
रौद्रः शकटचक्राक्षो महाकायो महाबलः ।
कृष्णवासा महादंष्ट्रः किरीटी लोहिताननः ॥ ३.५१.२०॥
वृतो दैत्यसहस्रौघैर्गिरिपादपयोधिभिः ।
नानारूपधरैर्दृप्तैर्दैत्यैस्त्रिदशशत्रुभिः ॥ २१॥
ते शूलहस्ता गगने चरन्त इतस्ततस्तोयदवृन्दतुल्याः ।
खं छादयन्तस्तपनीयनिष्का यथोन्नताः प्रावृषि कालमेघाः ॥ २२॥
दनायुषायाः पुत्रस्तु वृत्रो नाम महासुरः ।
देवशत्रुर्महाकायस्ताम्रास्यो निर्नतोदरः ॥ २३॥
दीप्तजिह्वो हरिश्मश्रुरूर्ध्वरोमा महाहनुः ।
नीलाङ्गो लोहितमुखः किरीटी लोहिताम्बरः ॥ २४॥
आजानुबाहुर्विकृतः श्वेतदंष्ट्रो विभीषणः ।
महामायाधरो भीमो हेमकेयूरभूषणः ॥ २५॥
महता मणिचित्रेण कवचेन तु संवृतः ।
हेममालाधरो रौद्रश्चक्रकेतुरमर्षणः ॥ २६॥
किङ्किणीशतसङ्घुष्टं तपनीयविभूषितम् ।
युक्तं हयसहस्रेण रक्तध्वजपताकिनम् ॥ २७॥
रथानीकेन महता युद्धायाभिमुखो ययौ ।
दिव्यं स्यन्दनमास्थाय दैत्यानां नन्दिवर्धनः ॥ २८॥
तपितकनकबिन्दुपिङ्गलाक्षो दितितनयोऽसुरसैन्ययुद्धनेता ।
विकसितकमलाभचारुचक्षुः सितदशनः शुशुभे रथासनस्थः ॥ २९॥
एकचक्रस्तु तत्रैव सूर्यचक्र इवोदितः ।
कालचक्रसमो रौद्रश्चक्रायुध इवोद्यतः ॥ ३.५१.३०॥