भविष्यपर्व, अध्याय 50: वामनप्रादुर्भावे, Verse 1
शम्बरादिदैत्यसन्नहनम् Mobilisation under shambara and others वैशम्पायन उवाच ।
पुलोमा तु महादैत्यस्तिमिराकारगह्वरम् ।
आरुरोहायसं घोरं रथं पररथारुजम् ॥ १॥
Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.
शम्बरादिदैत्यसन्नहनम् Mobilisation under shambara and others वैशम्पायन उवाच ।
पुलोमा तु महादैत्यस्तिमिराकारगह्वरम् ।
आरुरोहायसं घोरं रथं पररथारुजम् ॥ १॥
उत्कीर्णपर्वताकारं लोहजालान्तरान्तरम् ।
नेमिघोषेण महता क्षुभ्यन्तमिव सागरम् ॥ २॥
गदापरिघनिस्त्रिंशैः सतोमरपरश्वधैः ।
शक्तिमुद्गरसङ्कीर्णं सतोयमिव तोयदम् ॥ ३॥
रथमुष्ट्रसहस्रेण संयुक्तं वायुवेगिना ।
पुलोमाऽऽरुह्य युद्धाय प्रस्थितो युद्धदुर्मदः ॥ ४॥
षष्टी रथसहस्राणि पुलोमानं महारथम् ।
अन्वयुः सूर्यवर्णानि प्रदीप्तानीव तेजसा ॥ ५॥
खड्गध्वजेन महता तप्तकाञ्चनवर्चसा ।
भ्राजते रथमध्यस्थः पर्वतस्य इवांशुमान् ॥ ६॥
सुचारुचामीकरपट्टनद्धां महागदां कालनिभां महाबलः ।
प्रगृह्य बभ्राज स शत्रुमध्ये कार्ष्णायसीं केतुरिवास्थितोर्व्याम् ॥ ७॥
हयग्रीवस्तु बलवान् हयग्रीवैर्महासुरैः ।
वृतः शतसहस्रेण रथानां रथिसत्तमः ॥ ८॥
धराधरनिभाकारं सपत्नानीकमर्दनम् ।
स्यन्दनं भीममास्थाय युद्धायाभिमुखः स्थितः ॥ ९॥
श्वेतशैलप्रतीकाशः श्वेतकुण्डलभूषणः ।
शुशुभे रथमध्यस्थः श्वेतशृङ्ग इवाचलः ॥ ३.५०.१०॥
महता सप्तशीर्षेण शोभितो नागकेतुना ।
वैदूर्यमणिचित्रेण प्रवालाङ्कुरशोभिना ॥ ११॥
अमितबलपराक्रमाकृतीनां वररथिनामनुजग्मुरूर्जितानाम् ।
असुरगणशतानि गच्छमानं त्रिदशगणा इव वासवं प्रयान्तम् ॥ १२॥
प्रह्रादस्तु महाप्राज्ञः सर्वशास्त्रविशारदः ।
सर्वमायाधरः श्रीमान् यष्टा क्रतुशतैरपि ॥ १३॥
समनह्यत तेजस्वी पावकार्चिःसमप्रभः ।
रथानीकेन महता दुर्दिनाम्भोदनादिना ॥ १४॥
शूरेणामितवीर्येण हेमकुण्डलधारिणा ।
वृतो दैत्यसहस्रेण देवैरिव पितामहः ॥ १५॥
स्ववीर्येणोदधेस्तुल्यः प्रदीप्ताग्निरिव ज्वलन् ।
तेजसा भास्कराकारः क्षमया पृथिवीसमः ॥ १७॥
तालध्वजेन दीप्तेन रथेनातिविराजता ।
तं यान्तमनुयान्ति स्म दानवाः शतसङ्घशः ॥ १८॥
सर्वे हिरण्यकवचाः सर्वे रत्नविभूषिताः ।
दिव्याङ्गरागाभरणाः समरेष्वनिवर्तिनः ॥ १९॥
जाम्बूनदविचित्राङ्गा वैदूर्यविकृताङ्गदाः ।
दिव्यस्यन्दनमध्यस्थाः खस्था इव महाग्रहाः ॥ ३.५०.२०॥
आचारवांश्चैव जितेन्द्रियश्च धर्मे रतः सत्यपरोऽनसूयः ।
स्थितोऽग्नितोयाम्बुदवायुकल्पो रूपी यथा सर्वहरः कृतान्तः ॥ २१॥
शम्बरस्तु महामायो रथयूथपयूथपः ।
आरुरोह रथं दिव्यं सर्वयुद्धविशारदः ॥ २२॥
लोहिताक्षो महाबाहुः प्रतप्तोत्तमकुण्डलः ।
जीमूतघनसङ्काशो श्यियस्रगनुलेपनः ॥ २३॥
विद्युज्ज्योतिर्निकाशेन मुकुटेनार्कवर्चसा ।
मणिरत्नविचित्रेण वैदूर्यवरशोभिना ॥ २४॥
तपनीयेन महता कवचेन विराजता ।
सन्ध्याभ्रेणेव सञ्च्छन्नः श्रीमानस्तशिलोच्चयः ॥ २५॥
त्रिंशच्छतसहस्राणि दैत्यानां चित्रयोधिनाम् ।
बलिनां कालकल्पानामन्वयु शम्बरं तदा ॥ २६॥
युक्तं हयसहस्रेण शुक्लवर्णेन राजता ।
क्रौञ्चध्वजेन दीप्तेन रथेनाहवशोभिना ॥ २७॥
व्यासक्तवैदूर्यसुवर्णजालं नानाविहङ्गैरपि भक्तिचित्रम् ।
विद्युत्प्रभं भीमरवं सुवेगं रथं समारुह्य रराज दैत्यः ॥ २८॥
स्ववीर्यादग्रणीर्दृप्तो मत्तवारणविक्रमः ।
सुरसैन्यस्य सर्वस्य प्रतिक्षोभ इव स्थितः ॥ १६४॥