भविष्यपर्व, अध्याय 48: वामने, Verse 1
वामनप्रादुर्भावे बलेरभिषेकः Coronation of bali वामनावतारस्योपक्रमः, बलेः अभिषेकं, दैत्येभिः तं त्रैलोक्यविजयस्य अनुरोधं च वैशम्पायन उवाच ।
नृसिंह एष कथितो भूयोऽयं वामनोऽपरः ।
यत्र वामनमास्थाय रूपं रूपविदां वरः ॥ १॥