भविष्यपर्व, अध्याय 46: नारसिंहे, Verse 1
हिरण्यकशिपो पराक्रमः HiraNyakashipu's valour दैत्यानां विनाशसूचकाः महान्ति उत्पातानि, हिरण्यकशिपुना गदामादाय आक्रमणम्, तस्य पादानां धमनात् पृथ्वी, पर्वत, नदी एवं देशानां कम्पनं वैशम्पायन उवाच ।
ततः सर्वासु मायासु हतासु दितिनन्दनाः ।
हिरण्यकशिपुं सर्वे विषण्णाः शरणं गताः ॥ १॥