Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे

Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 1

नृसिंहकृतो दैत्यमायानिरासः Narasimha annuls daitya's illusion दैत्येभिः कृतानां प्रहाराणां रचितानां मायानां च निष्फलता वैशम्पायन उवाच ।

स्वराः खरमुखाश्चैव मकराशीविषाननाः ।

ईहामृगमुखाश्चान्ये वराहसदृशाननाः ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 2

बालसूर्यमुखाश्चैव धूमकेतुमुखास्तथा ।

चन्द्रार्धचन्द्रवक्त्राश्च प्रदीप्ताग्निमुखास्तथा ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 3

हंसकुक्कुटवक्त्राश्च व्यादितास्या भयावहाः ।

पञ्चास्या लेलिहानाश्च काकगृध्रमुखास्तथा ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 4

विद्युज्जिह्वास्त्रिशीर्षाश्च तथोल्कासन्निभाननाः ।

महाग्राहनिभाश्चान्ये दानवा बलदर्पिताः ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 5

कैलासवपुषस्तस्य शरीरे शरवृष्टयः ।

अवध्यस्य मृगेन्द्रस्य न व्यथां चक्रुराहवे ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 6

एवं भूयोऽपरान् घोरानसृजन्दानवाः शरान् ।

मृगेन्द्रस्योरसि क्रुद्धा निःश्वसन्त इवोरगाः ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 7

ते दानवशरा घोरा मृगेन्द्राय समीरिताः ।

विलयं जग्मुराकाशे खद्योता इव पर्वते ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 8

ततश्चक्राणि दिव्यानि दैत्याः क्रोधसमन्विताः ।

मृगेन्द्रायाक्षिपन्त्याशु प्रज्वलन्तीव सर्वशः ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 9

तैरासीद् गगनं चक्रैः सम्पतद्भिः समावृतम् ।

युगान्ते सम्प्रकाशद्भिश्चन्द्रसूर्यग्रहैरिव ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 10

तानि चक्राणि वदनं प्रविशन्ति विभान्ति वै ।

मेघोदरदरीं घोरां चन्द्रसूर्यग्रहा इव ॥ ३.४५.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 11

तानि चक्राणि सर्वाणि मृगेन्द्रेण महात्मना ।

निगीर्णानि प्रदीप्तानि पावकार्चिःसमानि वै ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 12

हिरण्यकशिपुर्दैत्यो भूयः प्रासृजदूर्जिताम् ।

शक्तिं प्रज्वलितां घोरां हुताशनसमप्रभाम् ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 13

तामापतन्तीं सम्प्रेक्ष्य मृगेन्द्रः शक्तिमुत्तमाम् ।

हुङ्कारेणैव रौद्रेण बभञ्ज भगवांस्तदा ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 14

रराज भग्ना सा शक्तिर्मृगेन्द्रेण महीतले ।

सविस्फुलिङ्गा ज्वलिता महोल्केव नभश्च्युता ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 15

नाराचपङक्तिः सिंहस्य सृष्टा रेजे विदूरतः ।

नीलोत्पलपलाशानां मालेवोज्ज्वलदर्शना ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 16

गर्जित्वा तु यथाकामं विक्रम्य च यथासुखम् ।

तत् सैन्यमुत्सारितवांस्तृणाग्राणीव मारुतः ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 17

ततोऽश्मवर्षं दैत्येन्द्रा व्यसृजन्त नभोगताः ।

नगमात्रैः शिलाखण्डैर्गिरिकूटैर्महाप्रभैः ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 18

तदश्मवर्षं सिंहस्य गात्रे निपतितं महत् ।

दिशो दश प्रकीर्णं हि खद्योतप्रकरो यथा ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 19

तदश्मौघैर्दितिसुतास्तदा सिंहमरिन्दमम् ।

प्राच्छादयन् यथा मेघा धाराभिरिव पर्वतम् ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 20

न च तं चालयामासुर्दैत्यौघा देवमास्थितम् ।

भीमवेगा बलश्रेष्ठं समुद्रा इव पर्वतम् ॥ ३.४५.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 21

ततोऽश्मवर्षे निहते जलवर्षमनन्तरम् ।

धाराभिरक्षमात्राभिः प्रादुरासीत् समन्ततः ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 22

नभसः प्रच्युता धारास्तिग्मवेगाः सहस्रशः ।

आवृण्वन् सर्वतो व्योम दिशश्चोपदिशस्तथा ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 23

धाराणां सन्निपातेन वायोर्विस्फूर्जितेन च ।

वर्धता चैव वर्षेण न प्राज्ञायत किञ्चन ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 24

धारा दिवि च संसक्ता वसुधायां च सर्वशः ।

न स्पृशन्ति स्म तं तत्र निपतन्त्योऽनिशं भुवि ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 25

बाह्यतो ववृषे वर्षं नोपरिष्टात् तु तोयदः ।

मृगेन्द्रप्रतिरूपस्य स्थितस्य युधि मायया ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 26

हतेऽश्मवर्षे तुमुले जलवर्षे च शोषिते ।

ससृजुर्दानवा मायामग्निं वायुं च सर्वशः ॥ २६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 27

नभसः प्रच्युतश्चैव तिग्मवेगः समन्ततः ।

ज्वालामाली महारौद्रो दीप्ततेजाः समन्ततः ॥ २७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 28

स सृष्टः पावकस्तेन दैत्येन्द्रेण महात्मना ।

न शशाक महातेजा दग्धुमप्रतिमौजसम् ॥ २८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 29

तमिन्द्रस्तोयदैः सार्धं सहस्राक्षोऽमितद्युतिः ।

महता तोयवर्षेण शमयामास पावकम् ॥ २९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 45: नारसिंहे, Verse 30

तस्यां प्रतिहतायां तु मायायां युधि दानवाः ।

ससृजुर्घोरसङ्काशं तमस्तीव्रं समन्ततः ॥ ३.४५.३०॥