Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 1

नृसिंहस्योपरि दैत्यानां शस्तास्त्रपातः Daitya-s do battle with narasimhtogether with deva-s kashyapa and aditi go to brahmaa दैत्येभिः हिरण्यकशिपुना च नृसिंहोपरि विभिन्नानां अस्त्राणां प्रहारः वैशम्पायन उवाच ।

प्रह्रादस्य च तच्छ्रुत्वा हिरण्यकशिपुर्वचः ।

उवाच दानवान् सर्वान् सगणांश्च गणाधिपः ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 2

मृगेन्द्रो गृह्यतां शीघ्रमपूर्वां तनुमास्थितः ।

यदि वा संशयः कश्चिद् वध्यतां वनगोचरः ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 3

तच्छुत्वा दानवाः सर्वे मृगेन्द्रं भीमविक्रमम् ।

परिक्षिपन्तो मुदितास्त्रासयामासुरोजसा ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 4

सिंहनादं नदित्वा तु पुनः सिंहो महाबलः ।

बभञ्ज तां सभां रम्यां व्यादितास्य इवान्तकः ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 5

सभायां भज्यमानायां हिरण्यकशिपुः स्वयम् ।

चिक्षेपास्त्राणि सिंहस्य रोषव्याकुललोचनः ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 6

सर्वास्त्राणामथ श्रेष्ठं दण्डमस्त्रं सुभैरवम् ।

कालचक्रं तथात्युग्रं विष्णुचक्रं तथैव च ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 7

धर्मचक्रं महच्चक्रमजितं नाम नामतः ।

चक्रमैन्द्रं तथा घोरमृषिचक्रं तथैव च ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 8

पैतामहं तथा चक्रं त्रैलोक्यमहितस्वनम् ।

विचित्रमशनीं चैव शुष्कार्द्रं चाशनिद्वयम् ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 9

रौद्रं तदुग्रं शूलं च कङ्कालं मुसलं तथा ।

अस्त्रं ब्रह्मशिरश्चैव ब्राह्ममस्त्रं तथैव च ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 10

ऐषीकमस्त्रमैन्द्रं च आग्नेयं शैशिरं तथा ।

वायव्यं मथनं नाम कापालमथ किङ्करम् ॥ ३.४४.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 11

तथा चाप्रतिमां शक्तिं क्रौञ्चमस्त्रं तथैव च ।

अस्त्रं हयशिरश्चैव सौम्यमस्त्रं तथैव च ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 12

पैशाचमस्त्रममितं सार्प्यमस्त्रं तथाद्भुतम् ।

मोहनं शोषणं चैव सन्तापनविलापने ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 13

जृम्भणं प्रापणं चैव त्वाष्ट्रं चैव सुदारुणम् ।

कालमुद्गरमक्षोभ्यं क्षोभणं तु महाबलम् ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 14

संवर्तनं मोहनं च तथा मायाधरं परम् ।

गान्धर्वमस्त्रं दयितमसिरत्नं च नन्दकम् ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 15

प्रस्वापनं प्रमथनं वारुणं चास्त्रमुत्तमम् ।

अस्त्रं पाशुपतं चैव यस्याप्रतिहता गतिः ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 16

एतान्यस्त्राणि सर्वाणि हिरण्यकशिपुस्तदा ।

चिक्षेप नारसिंहस्य दीप्तस्याग्नेर्यथाहुतिः ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 17

अस्त्रैः प्रज्वलितैः सिंहमावृणोदसुराधिपः ।

विवस्वान् घर्मसमये हिमवन्तमिवांशुभिः ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 18

स ह्यमर्षानिलोद्भूतो दैत्यानां सैन्यसागरः ।

क्षणेनाप्लावयत् सिंहं मैनाकमिव सागरः ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 19

प्रासैः पाशैस्तथा शूलैर्गदाभिर्मुसलैस्तथा ।

वज्रैरशनिकल्पैश्च शिलाभिश्च महाद्रुमैः ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 20

मुद्गरैः कूटपाशैश्च शूलोलूखलपर्वतैः ।

शतघ्नीभिश्च दीप्ताभिर्दण्डैरपि सुदारुणैः ॥ ३.४४.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 21

परिवार्य समन्तात् तु निघ्नन्नस्त्रैर्हरिं तदा ।

स्वल्पमप्यस्य न क्षुण्णमूर्जितस्य महात्मनः ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 22

ते दानवाः पाशगृहीतहस्ता महेन्द्रवज्राशनितुल्यवेगाः ।

समन्ततोऽभ्युद्यतबाहुशस्त्राः स्थितास्त्रिशीर्षा इव पन्नगेन्द्राः ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 23

सुवर्णमालाकुलभूषिताङ्गा नानाङ्गदाभोगपिनद्धगात्राः ।

मुक्तावलीदामविभूषिताङ्गा हंसा इवाभान्ति विशालपक्षाः ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 24

तेषां तु वायुप्रतिमौजसां वै केयूरमालावलयोत्कटानि ।

तान्युत्तमाङ्गान्यभितो विभान्ति प्रभातसूर्यांशुसमप्रभाणि ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 25

तैः प्रक्षिपद्भिर्ज्वलितानलोपमैर्महास्त्रपूगैः स समावृतो बभौ ।

गिरिर्यथा सन्ततवर्षिभिर्घनैः कृतान्धकारोऽद्भुतकन्दरद्रुमः ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 26

तैर्हन्यमानोऽपि महास्त्रजालैः सर्वैस्तदा दैत्यगणैः समेतैः ।

नाकम्पताजौ भगवान् प्रतापवान् स्थितः प्रकृत्या हिमवानिवाचलः ॥ २६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 27

सन्तापितास्ते नरसिंहरूपिणा दितेः सुताः पावकदीप्ततेजसा ।

भयाद् विचेलुः पवनोद्धता यथा महोर्मयः सागरवारिसम्भवाः ॥ २७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 44: नारसिंहे, Verse 28

शतैर्धनुर्भिः सुमहातिवेगा युगान्तकालप्रतिमाञ्छरौघान् ।

एकायनस्था मुमुचुर्नृसिंहे महासुराः क्रोधविदीपिताङ्गाः ॥ २८॥