भविष्यपर्व, अध्याय 41: नारसिंहे हिरण्यकशिपुसभावर्णने, Verse 1
नृसिंहावतारः AvatAra as narasimha and description of hiraNyakashipu's assembly hall हिरण्यकशिपोः तपं, वरप्राप्तिः, अत्याचारः, देवेभ्यः ब्रह्मणः आश्वासनं, भगवतः विष्णोः नृसिंहरूपं धारयित्वा हिरण्यकशिपोः सभायां गमनं, सभायाः वर्णनं वैशम्पायन उवाच ।
वाराह एष कथितो नारसिंहमतः शृणु ।
यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर्हतः ॥ १॥