Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 1

इन्द्रदीनां मोचनं तेषामाधिपत्यलाभश्च Deva-s freed and their commands restored देवेभिः स्वप्रभुत्वस्य प्राप्तिः, देवराजस्य इन्द्रस्य सम्पूर्ण लोकानां आधिपत्योपरि प्रतिष्ठा, सत्-असत् पुरुषाणां यथोचितगत्याय आदेशं दत्त्वा भगवतः अन्तर्धानं, देवेन्द्रेण पर्वतानां पक्षाणां छेदनं वैशम्पायन उवाच ।

विद्राव्य तु रणे सर्वानसुरान् पुरुषोत्तमः ।

मुमोच तत्र बद्धांस्तान् पुरन्दरमुखान् सुरान् ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 2

ततः प्रकृतिमापन्नाः सर्वे देवगणास्तथा ।

पुरन्दरं पुरस्कृत्य नारायणमुपस्थिताः ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 3

देवा ऊचुः ।

त्वत्प्रसादेन भगवंस्तव बाहुबलेन च ।

जीवामोऽद्य महाबाहो निष्क्रान्ताश्चान्तकाननात् ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 4

त्वच्छासनाद्धि भगवन्किं कुर्वन्त्वदितेः सुताः ।

इच्छामः पादशुश्रूषां तव कर्तुं सनातन ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 5

वैशम्पायन उवाच ।

तच्छ्रुत्वा वचनं तेषां पुण्डरीकनिभेक्षणः ।

उवाच वचनं देवान् मुदायुक्तो हतद्विषः ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 6

श्रीभगवानुवाच ।

यो यस्य भावतो लोको मयैव विहितः पुरा ।

पाल्यतां स तु यत्नेन नियोगश्च क्वचित् क्वचित् ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 7

ऐश्वर्यं प्रतिपन्नाः स्वं क्रतुभागपुरस्कृतम् ।

मयैव पूर्वं निर्दिष्टो नियोगः प्रतिपाल्यताम् ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 8

शक्रं चोवाच भगवान् वचनं दुन्दुभिस्वनः ।

इदं यथावत् कर्तव्यं सत्सु चासत्सु च त्वया ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 9

गच्छन्तु तपसा स्वर्गे मुनयः शंसितव्रताः ।

तव लोकं सुरश्रेष्ठ सर्वकामदुघं सदा ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 10

यायजूकाश्च ये केचिद् ब्राह्मणाः क्षत्रिया विशः ।

तेषां कामदुघा लोकाः स्वर्गमादिमनोहराः ।

यज्ञैरिष्ट्वा यायजूकाः फलं ते प्राप्नुवन्तु च ॥ ३.४०.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 11

भावः सद्धर्मशीलानामभावः पापकर्मणाम् ।

सन्तः स्वर्गजितः सन्तु सर्वाश्रमनिवासिनः ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 12

सत्यशूरा रणे शूरा दानशूराश्च ये नराः ।

ते नराः स्वर्गमश्नन्तु सदा ये चानसूयवः ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 13

अश्रद्दधानाः पुरुषाः कामिनोऽर्थपराः शठाः ।

अब्रह्मण्या नास्तिकाश्च नरकं यान्तु मानवाः ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 14

एतावत् क्रियतां वाक्यं मयोक्तं त्रिदशेश्वराः ।

ततो मयि स्थिते सर्वान् बाधिष्यन्ते न चारयः ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 15

इत्युक्त्वान्तर्हितो देवः शङ्खचक्रगदाधरः ।

देवतानां च सर्वेषामभवद् विस्मयो महान् ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 16

एतदत्यद्भुतं दृष्ट्वा वाराहचरितं सुराः ।

नमस्कृत्य वराहाय नाकपृष्ठमितो गताः ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 17

ततः स्वान्याधिपत्यानि प्रतिपन्नानि दैवतैः ।

सर्वलोकाधिपत्ये च प्रतिष्ठां वासवो गतः ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 18

विमुक्ता दानवगणैः प्रकृतिं धरणी गता ।

स्थैर्यहेतोर्धरण्यास्तु ज्ञात्वा चागस्कृतान्गिरीन् ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 19

स्वेषु स्थानेषु संस्थाप्य पर्वतानां पुरन्दरः ।

चिच्छेद भगवान् पक्षान् वज्रेण शतपर्वणा ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 20

सर्वेषामेव पक्षा वै छिन्नाः शक्रेण धीमता ।

एकः सपक्षो मैनाकः सुरैस्तत्समयः कृतः ॥ ३.४०.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 21

एष नारायणस्यायं प्रादुर्भावो महात्मनः ।

वाराह इति विप्रेन्द्रैः पुराणे परिकीर्तितः ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 22

कृष्णद्वैपायनमतं नानाश्रुतिसमाहितम् ।

नाशुचेर्न कृतघ्नाय न नृशंसाय कीर्तयेत् ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 23

न क्षुद्राय न नीचाय न गुरुद्वेषकारिणे ।

नाशिष्याय तथा राजन् न कृतघ्नाय चैव हि ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 24

आयुष्कामैर्यशःकामैर्महीकामैश्च मानवैः ।

जयैषिभिश्च श्रोतव्यो देवानामेष वै जयः ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 25

पुराणवेदसम्बद्धः शिवः स्वस्त्ययनो महान् ।

पावनः सर्वसत्त्वानां तत्कालविजयप्रदः ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 26

एष कौरव्य तत्त्वेन कथितस्त्वनुपूर्वशः ।

वाराहस्य नृपश्रेष्ठ प्रादुर्भावो महात्मनः ॥ २६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 27

ये यजन्ति मखैः पुण्यैर्दैवतानि पितॄनपि ।

आत्मानमात्मना नित्यं विष्णुमेव यजन्ति ते ॥ २७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 40: वाराहप्रादुर्भावे, Verse 28

लोकायनाय त्रिदशायनाय ब्रह्मायनायात्मभवायनाय ।

नारायणायात्महितायनाय महावराहाय नमस्कुरुष्व ॥ २८॥