Harivamsha Purana

भविष्यपर्व, अध्याय 39: वाराहे

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 39: वाराहे, Verse 1

हिरण्याक्षवदः HiraNyAkSha killed भगवता वराहेण हिरण्याक्षस्य वधं वैशम्पायन उवाच ।

निष्प्रयत्ने सुरपतौ धर्षितेषु सुरेषु च ।

हिरण्याक्षवधे बुद्धिं चक्रे चक्रगदाधरः ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 39: वाराहे, Verse 2

वाराहः पर्वतो नाम यः पूर्वं समुदाहृतः ।

स एव भूत्वा भगवानाजगामासुरान्तकृत् ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 39: वाराहे, Verse 3

ततश्चन्द्रप्रतीकाशमगृह्णाच्छङ्खमुत्तमम् ।

सहस्रारं च तच्चक्रं चक्रपर्वतसन्निभम् ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 39: वाराहे, Verse 4

महादेवो महाबुद्धिर्महायोगी महेश्वरः ।

पठ्यते योऽमरैः सर्वैर्गुह्यैर्नामभिरव्ययः ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 39: वाराहे, Verse 5

सदसच्चात्मनि श्रेष्ठः सद्भिर्यः सेव्यते सदा ।

इज्यते यः पुराणश्च त्रिलोके लोकभावनः ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 39: वाराहे, Verse 6

यो वैकुण्ठः सुरेन्द्राणामनन्तो भोगिनामपि ।

विष्णुर्यो योगविदुषां यो यज्ञो यज्ञकर्मणाम् ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 39: वाराहे, Verse 7

मखे यस्य प्रसादेन भुवनस्था दिवौकसः ।

आज्यं महर्षिभिर्दत्तमश्नुवन्ति त्रिधा हुतम् ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 39: वाराहे, Verse 8

यो गतिर्देवदैत्यानां यः सुराणां परा गतिः ।

यः पवित्रं पवित्राणां स्वयम्भूरव्ययो विभुः ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 39: वाराहे, Verse 9

यस्य चक्रप्रविष्टानि दानवानां युगे युगे ।

कुलान्याकुलतां यान्ति यानि दृप्तानि वीर्यतः ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 39: वाराहे, Verse 10

ततो दैत्यद्रवकरं पौराणं शङ्खमुत्तमम् ।

धमन् वक्त्रेण बलवानाक्षिपद् दैत्यजीवितम् ॥ ३.३९.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 39: वाराहे, Verse 11

श्रुत्वा शङ्खस्वनं घोरमसुराणां भयावहम् ।

क्षुभिता दानवाः सर्वे दिशो दश व्यलोकयन् ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 39: वाराहे, Verse 12

ततः संरक्तनयनो हिरण्याक्षो महासुरः ।

कोऽयमित्यब्रवीद् रोषान्नारायणमुदैक्षत ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 39: वाराहे, Verse 13

वाराहरूपिणं देवं संस्थितं पुरुषोत्तमम् ।

शङ्खचक्रोद्यतकरं देवानामार्तिनाशनम् ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 39: वाराहे, Verse 14

रराज शङ्खचक्राभ्यां ताभ्यामसुरसूदनः ।

सूर्याचन्द्रमसोर्मध्ये यथा नीलपयोधरः ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 39: वाराहे, Verse 15

ततोऽसुरगणाः सर्वे हिरण्याक्षपुरोगमाः ।

उद्यतायुधनिस्त्रिंशा दृप्ता देवमुपाद्रवन् ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 39: वाराहे, Verse 16

पीड्यमानोऽतिबलिभिर्दैत्यैः सर्वायुधोद्यतैः ।

न चचाल हरिर्युद्धेऽकम्प्यमान इवाचलः ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 39: वाराहे, Verse 17

ततः प्रज्वलितां शक्तिं वाराहोरसि दानवः ।

हिरण्याक्षो महातेजाः पातयामास वीर्यवान् ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 39: वाराहे, Verse 18

तस्याः शक्त्याः प्रभावेण ब्रह्मा विस्मयमागतः ।

समीपमागतां दृष्ट्वा महाशक्तिं महाबलः ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 39: वाराहे, Verse 19

हुङ्कारेणैव निर्भर्त्स्य पातयामास भूतले ।

तस्यां प्रतिहतायां तु ब्रह्मा साध्विति चाब्रवीत् ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 39: वाराहे, Verse 20

यः प्रभुः सर्वभूतानां वाराहस्तेन ताडितः ।

ततो भगवता चक्रमाविध्यादित्यसन्निभम् ॥ ३.३९.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 39: वाराहे, Verse 21

पातितं दानवेन्द्रस्य शिरस्युत्तमकर्मणा ।

ततः स्थितस्यैव शिरस्तस्य भूमौ पपात ह ।

हिरण्मयं वज्रहतं मेरुश‍ृङ्गमिवोत्तमम् ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 39: वाराहे, Verse 22

हिरण्याक्षे हते दैत्ये शेषा ये तत्र दानवाः ।

सर्वे तस्य भयत्रस्ता जग्मुराशु दिशो दश ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 39: वाराहे, Verse 23

स सर्वलोकाप्रतिचक्रचक्रो महाहवेष्वप्रतिमोग्रचक्रः ।

बभौ वराहो युधि चक्रपाणिः कालो युगान्तेष्विव दण्डपाणिः ॥ २३॥