Harivamsha Purana

हरिवंशपर्व, अध्याय 22: द्वाविंशोऽध्यायः

Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 22: द्वाविंशोऽध्यायः, Verse 1

पितृकल्पः - ६ -चक्रवाक वर्णनम् Portrayal of chakravAka birds पितृकल्प, शुचिवाक पक्षी का स्वतन्त्र आदि तीन पक्षियों को शाप देना, सुमना पक्षी का अनुग्रहपूर्वक उन्हें शाप से मुक्त करना मार्कण्डेय उवाच ।

ततस्तं चक्रवाकौ द्वावूचतुः सहचारिणौ ।

आवां ते सचिवौ स्यावस्तव प्रियहितैषिणौ ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 22: द्वाविंशोऽध्यायः, Verse 2

तथेत्युक्त्वा च तस्यासीत्तदा योगात्मिका मतिः ।

एवं ते समयं चक्रुः शुचिवाक् तमुवाच ह ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 22: द्वाविंशोऽध्यायः, Verse 3

यस्मात् कामप्रधानस्त्वं योगधर्ममपास्य वै ।

एवं वरं प्रार्थयसे तस्माद् वाक्यं निबोध मे ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 22: द्वाविंशोऽध्यायः, Verse 4

राजा त्वं भविता तात काम्पिल्ये नात्र संशयः ।

भविष्यतः सखायौ च द्वाविमौ सचिवौ तव ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 22: द्वाविंशोऽध्यायः, Verse 5

शप्त्वा चानभिभाष्यांस्तांश्चत्वारश्चक्रुरण्डजाः ।

तांस्त्रीनभीप्सतो राज्यं व्यभिचारप्रदर्शितान् ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 22: द्वाविंशोऽध्यायः, Verse 6

शप्ताः खगास्त्रयस्ते तु योगभ्रष्टा विचेतसः ।

तानयाचन्त चतुरस्त्रयस्ते सहचारिणः ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 22: द्वाविंशोऽध्यायः, Verse 7

तेषां प्रसादं ते चक्रुरथैतान्सुमनाऽब्रवीत् ।

सर्वेषामेव वचनात्प्रसादानुगतं वचः ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 22: द्वाविंशोऽध्यायः, Verse 8

अन्तवान् भविता शापो युष्माकं नात्र संशयः ।

इतश्च्युताश्च मानुष्यं प्राप्य योगमवाप्स्यथ ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 22: द्वाविंशोऽध्यायः, Verse 9

सर्वसत्त्वरुतज्ञश्च स्वतन्त्रोऽयं भविष्यति ।

पितृप्रसादो ह्यस्माभिरस्य प्राप्तः कृतेन वै ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 22: द्वाविंशोऽध्यायः, Verse 10

गां प्रोक्षयित्वा धर्मेण पितृभ्य उपकल्प्यताम् ।

अस्माकं ज्ञानसंयोगः सर्वेषां योगसाधनः ॥ १.२२.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 22: द्वाविंशोऽध्यायः, Verse 11

इमं च वाक्यसन्दर्भश्लोकमेकमुदाहृतम् ।

पुरुषान्तरितं श्रुत्वा ततो योगमवाप्स्यथ ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 22: द्वाविंशोऽध्यायः, Verse 22

इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृकल्पे द्वाविंशोऽध्यायः ॥ २२॥