Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे

Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 1

महीवर्णनम् Description of the Earth भगवता वराहेण विभिन्नासु दिक्षु पर्वतानां नदीनां च निर्माणं वैशम्पायन उवाच ।

तस्योपरि जलौघस्य महती नौरिव स्थिता ।

विततत्वात्तु देहस्य न ययौ सम्प्लवं मही ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 2

ततः स चिन्तयामास प्रविभागं क्षितेर्विभुः ।

समुच्छ्रयं च सर्वेषां पर्वतानां नदीषु च ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 3

विलेखनं प्रमाणं च गतिं प्रस्रवमेव च ।

माहात्म्यं च विशेषं च नदीनामन्वचिन्तयत् ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 4

चतुरन्तां धरां कृत्वा तथा चैव महार्णवम् ।

मध्ये पृथिव्याः सौवर्णमकरोन्मेरुपर्वतम् ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 5

प्राचीं दिशमथो गत्वा चकारोदयपर्वतम् ।

शतयोजनविस्तारं सहस्रं च समुच्छ्रयम् ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 6

जातरूपमयैः श‍ृङ्गैस्तरुणादित्यसन्निभैः ।

आत्मतेजोगुणमयैर्वेदिकाभोगकल्पितम् ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 7

विविधांश्च महास्कन्धान् काञ्चनान् पुष्करेक्षणः ।

नित्यपुष्पफलान् वृक्षान् कृतवांस्तत्र पर्वते ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 8

शतयोजनविस्तारं ततस्त्रिगुणमायतम् ।

चकार स महादेवः पुनः सौमनसं गिरिम् ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 9

नानारत्नसहस्राणां कृत्वा तत्र सुसञ्चयम् ।

वेदिकां बहुवर्णां च सन्ध्याभ्राभामकल्पयत् ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 10

सहस्रश‍ृङ्गं च गिरिं नानामणिशिलातलम् ।

कृतवान् वृक्षगहनं षष्टियोजनमुच्छ्रितम् ॥ १०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 11

आसनं तत्र परमं सर्वभूतनमस्कृतम् ।

कृतवानात्मनः स्थानं विश्वकर्मा प्रजापतिः ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 12

शिशिरं च महाशैलं तुषारचयसन्निभम् ।

चकार दुर्गगहनं कन्दरान्तरमण्डितम् ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 13

शिशिरप्रभवां चैव नदीं द्विजगणायुताम् ।

चकार पुलिनोपेतां वसुधारामिति श्रुतिः ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 14

सा नदी निखिलां प्राचीं पुण्यां मुखशतैश्चिताम् ।

शोभयत्यमृतप्रख्यैर्मुक्ताशङ्खविभूषितैः ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 15

नित्यपुष्पफलोपेतैश्छादयद्भिः सुसंवृतैः ।

भूषिताभ्यधिकैः कान्तैः सा नदी तीरजैर्द्रुमैः ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 16

कृत्वा प्राचीविभागं च दक्षिणायामथो दिशि ।

चकार पर्वतं दिव्यं सर्वकाञ्चनराजतम् ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 17

एकतः सूर्यसङ्काशमेकतः शशिसन्निभम् ।

स बिभ्रच्छुशुभेऽतीव द्वौ वर्णौ पर्वतोत्तमः ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 18

तेजसा युगपद् व्याप्तं सूर्याचन्द्रमसाविव ।

वपुष्मन्तमथो तत्र भानुमन्तं महागिरिम् ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 19

सर्वकामफलैर्वृक्षैर्वृतं रम्यैर्मनोरमैः ।

चकार कुञ्जरं चैव कुञ्जरप्रतिमाकृतिम् ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 20

सर्वतः काञ्चनगुहं बहुयोजनविस्तृतम् ।

ऋषभप्रतिमं चैव ऋषभं नाम पर्वतम् ॥ २०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 21

हेमकाञ्चनवृक्षाढ्यं पुष्पहासं स सृष्टवान् ।

महेन्द्रमथ शैलेन्द्रं शतयोजनमुच्छ्रितम् ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 22

जातरूपमयैः श‍ृङ्गैः सपुष्पितमदाद्रुमम् ।

मेदिन्यां कृतवान् देवः प्रतिक्षोभमिवाचलम् ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 23

नानारत्नसमाकीर्णं सूर्येन्दुसदृशप्रभम् ।

चकार मलयं चाद्रिं चित्रपुष्पितपादपम् ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 24

मैनाकं च महाशैलं शिलाजालसमावृतम् ।

दक्षिणस्यां दिशि शुभं चकाराचलमायतम् ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 25

सहस्रशिरसं विन्ध्यं नानाद्रुमलताकुलम् ।

नदीं च विपुलावर्तां पुलिनश्रोणिभूषिताम् ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 26

क्षीरसङ्काशसलिलां पयोधारामिति श्रुतिः ।

सुरम्यां तोयकलिलां विहितां दक्षिणां दिशम् ॥ २६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 27

दिव्यां तीर्थशतोपेतां प्लावयन्तीं शुभाम्भसा ।

दिशं याम्यां प्रतिष्ठाप्य प्रतीचीं दिशमागमत् ॥ २७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 28

अकरोत् तत्र शैलेन्द्रं शतयोजनमुच्छ्रितम् ।

शोभितं शिखरैश्चित्रैः सुप्रवृद्धैर्हिरण्मयैः ॥ २८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 29

काञ्चनीभिः शिलाभिश्च गुहाभिश्चविभूषितम् ।

समाकुलं सूर्यनिभैः शालैस्तालैश्च भास्वरैः ॥ २९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 35: वाराहे, Verse 30

शुशुभे जातरूपैश्च श्रीमद्भिश्चित्रवेदिकैः ।

षष्टिं गिरिसहस्राणि तत्रासौ संन्यवेशयत् ॥ ३०॥