Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः

Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 1

पितृकल्पः - ५ - श्राद्ध महात्म्यम् Efficacy of beatification of manes पितृकल्प-मार्कण्डेयजी द्वारा श्राद्ध की महिमा का वर्णन, श्राद्ध के फल से कौशिक-पुत्रों को उत्तम जन्म की प्राप्ति मार्कण्डेय उवाच ।

श्राद्धे प्रतिष्ठितो लोकः श्राद्धे योगः प्रवर्तते ।

हन्त ते वर्तयिष्यामि श्राद्धस्य फलमुत्तमम् ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 2

ब्रह्मदत्तेन यत् प्राप्तं सप्तजातिषु भारत ।

त एव हि धर्मस्य बुद्धिर्निर्वर्तते शनैः ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 3

पीडयाप्यथ धर्मस्य कृते श्राद्धे परानघ ।

यत् प्राप्तं ब्राह्मणैः पूर्वं तन्निबोध महामते ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 4

ततोऽहं तानधर्मिष्ठान् कुरुक्षेत्रे पितृव्रतान् ।

सनत्कुमारनिर्दिष्टानपश्यं सप्त वै द्विजान् ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 5

दिव्येन चक्षुषा तेन यानुवाच पुरा विभुः ।

वाग्दुष्टः क्रोधनो हिंस्रः पिशुनः कविरेव च ।

खसृमः पितृवर्ती च नामभिः कर्मभिस्तथा ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 6

कौशिकस्य सुतास्तात शिष्या गार्ग्यस्य भारत ।

पितर्युपरते सर्वे व्रतवन्तस्तदाभवन् ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 7

विनियोगाद् गुरोस्तस्य गां दोग्ध्रीं समकालयन् ।

समानवत्सां कपिलां सर्वे न्यायागतां तदा ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 8

तेषां पथि क्षुधार्तानां बाल्यान्मोहाच्च भारत ।

क्रूरा बुद्धिः समभवत्तां गां वै हिंसितुं तदा ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 9

तान् कविः खसृमश्चैव याचेते नेति वै तदा ।

न चाशक्यन्त ते ताभ्यां तदा वारयितुं द्विजाः ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 10

पितृवर्ती तु यस्तेषां नित्यं श्राद्धाह्निको द्विजः ।

स सर्वानब्रवीद् भ्रातॄन् कोपाद्धर्मे समाहितः ॥ १.२१.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 11

यद्यवश्यं प्रहन्तव्या पितॄनुद्दिश्य साध्विमाम् ।

प्रकुर्वीमहि गां सम्यक् सर्व एव समाहिताः ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 12

एवमेषापि गौर्धर्मे प्राप्स्यते नात्र संशयः ।

पितॄनभ्यर्च्य धर्मेण नाधर्मोऽस्मान् भविष्यति ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 13

तथेत्युक्त्वा च ते सर्वे प्रोक्षयित्वा च गां ततः ।

पितृभ्यः कल्पयित्वैनामुपायुञ्जन्त भारत ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 14

उपयुज्य च गां सर्वे गुरोस्तस्य न्यवेदयन् ।

शार्दूलेन हता धेनुर्वत्सोऽयं गृह्यतामिति ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 15

आर्जवात् स तु तं वत्सं प्रतिजग्राह वै द्विजः ।

मिथ्योपचर्य ते तं तु गुरुमन्यायतो द्विजाः ।

कालेन समयुज्यन्त सर्व एवायुषः क्षये ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 16

ते वै क्रूरतया हिंस्रा अनार्यत्वाद् गुरौ तथा ।

उग्रा हिंसाविहाराश्च सप्ताजायन्त सोदराः ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 17

लुब्धकस्यात्मजास्तात बलवन्तो मनस्विनः ।

पितॄनभ्यर्च्य धर्मेण प्रोक्षयित्वा च गां तदा ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 18

स्मृतिः प्रत्यवमर्शश्च तेषां जात्यन्तरेऽभवत् ।

जाता व्याधा दशार्णेषु सप्त धर्मविचक्षणाः ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 19

स्वकर्मनिरताः सर्वे लोभानृतविवर्जिताः ।

तावन्मात्रं प्रकुर्वन्ति यावता प्राणधारणम् ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 20

शेषं ध्यानपराः कालमनुध्यायन्ति कर्म तत् ।

नामधेयानि चाप्येषामिमान्यासन्नराधिप ॥ १.२१.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 21

निर्वैरो निर्वृतिः शान्तो निर्मन्युः कृतिरेव च ।

वैधसो मातृवर्ती च व्याधाः परमधार्मिकाः ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 21

इति श्रीमहाभारते खिलेषु हरिवंशे हरिवंशपर्वणि पितृकल्पे एकविंशोऽध्यायः ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 22

तैरवमुषितैस्तात हिंसाधर्मरतैः सदा ।

माता च पूजिता वृद्धा पिता च परितोषितः ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 23

यदा माता पिता चैव संयुक्तौ कालधर्मणा ।

तदा धनूंषि ते त्यक्त्वा वने प्राणानवासृजन् ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 24

शुभेन कर्मणा तेन जाता जातिस्मरा मृगाः ।

त्रासानुत्पाद्य संविग्ना रम्ये कालञ्जरे गिरौ ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 25

उन्मुखो नित्यवित्रस्तः स्तब्धकर्णो विलोचनः ।

पण्डितो घस्मरो नादी नामतस्तेऽभवन् मृगाः ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 26

तमेवार्थमनुध्यान्तो जातिस्मरणसम्भवम् ।

आसन् वनचराः क्षान्ता निर्द्वन्द्वा निष्परिग्रहाः ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 27

ते सर्वे शुभकर्माणः सधर्माणो वनेचराः ।

योगधर्ममनुप्राप्ता विहरन्ति स्म तत्र ह ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 28

जहुः प्राणान्मरुं साध्य लघ्वाहारास्तपस्विनः ।

तेषां मरुं साधयतां पदस्थानानि भारत ।

तथैवाद्यापि दृश्यन्ते गिरौ कालञ्जरे नृप ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 21: एकविंशोऽध्यायः, Verse 29

कर्मणा तेन ते तात शुभेनाशुभवर्जिताः ।

शुभाच्छुभतरां योनिं चक्रवाकत्वमागताः ॥ २९॥