भविष्यपर्व, अध्याय 26: पौष्करे, Verse 1
मोहविवेकयोर्युद्धम् Mohavivekayoryuddham मधोः विष्णोश्च घोरं युद्धं, देवेभिः ऋषिभिश्च श्रीविष्णोः स्तुतिः, हयग्रीवरूप धारकस्य विष्णुना मधोः वधं, पृथिव्या मेदिनी नाम प्राप्तिः वैशम्पायन उवाच ।
बलवान् स तु दैतेयो मधुर्भीमपराक्रमः ।
बबन्ध पाशैर्निशितैर्महेन्द्रं पर्वतान्तरे ॥ १॥