भविष्यपर्व, अध्याय 25: पञ्चविंशोऽध्यायः, Verse 1
ईशभक्तिमाहात्म्यम् IshabhaktimAhAtmyam नारदादिभिः ब्राह्मणानां ब्रह्मणः च सत्कारं, ब्रह्मणा कश्यपाय यज्ञानुष्ठानस्यादेशं, देवदानवयुद्धं, विष्णुना मधोः पराजयं वैशम्पायन उवाच ।
ते तु गोब्राह्मणा नागाश्चन्द्रादित्यपुरस्कृताः ।
ब्राह्मणान् पूजयन्देवान् वसुभिर्ब्रह्मसम्भवैः ॥ १॥