Harivamsha Purana

भविष्यपर्व, अध्याय 24: पौष्करे

Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 24: पौष्करे, Verse 1

वर्णाश्रमधर्मपरिपालनम् VarNAshramadharmaparipAlanam चतुर्षु आश्रमेषु स्थितानां ब्राह्माणानां ब्रह्मणः यज्ञस्थलस्य पुण्यप्रदेशे वस्तुं कामना वैशम्पायन उवाच ।

बलिर्होमाश्च वर्धन्ते अहन्यहनि भारत ।

द्विजानां तपसाढ्यानां गृहधर्मेषु तिष्ठताम् ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 24: पौष्करे, Verse 2

देवतार्चाश्च पूज्यन्ते तदा प्रभृति भारत ।

तेषां ब्रह्मविदां राजन् पृथिव्यां ब्रह्मवादिभिः ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 24: पौष्करे, Verse 3

तत्रैव ब्रह्मसदने समे निस्तृणकण्टके ।

प्राज्येन्धनतृणे देशे पुण्ये पर्वतरोधसि ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 24: पौष्करे, Verse 4

वासं यत्र प्रकुर्वन्ति दृष्ट्वा भगवतः क्रियाम् ।

तपोऽर्थिनो महाभागा ब्रह्मचर्यव्रते स्थिताः ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 24: पौष्करे, Verse 5

गृहस्थधर्मनिरता दानप्राप्तेन चेतसा ।

यतयश्चापि काङ्क्षन्ति धर्मेणेह विकाङ्क्षिणः ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 24: पौष्करे, Verse 6

वन्यैः कर्मफलैश्चैव रता ब्राह्मणपुङ्गवाः ।

अग्निहोत्रव्रतस्नाता जितक्रोधाः समाहताः ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 24: पौष्करे, Verse 7

दैवयुक्तेन वा युक्ताः कर्मणा ब्रह्मसत्तमाः ।

चीरवल्कलसंवीता नियता नियतेन्द्रियाः ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 24: पौष्करे, Verse 8

चरन्तो ब्रह्मचर्यं च व्रतमास्थाय दारुणम् ।

अनेन विधिना राजन् कर्मप्राप्तेन सर्वशः ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 24: पौष्करे, Verse 9

क्रमाद्ये वेदसंस्कारं पुण्यं प्राप्ताः सनातनम् ।

पूर्वैराचरितं राजन् मुनिभिर्ब्रह्मवादिभिः ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 24: पौष्करे, Verse 10

नावेदविद्वानागच्छेन्नापि रौद्रं व्रतं चरेत् ।

न च त्यागेन गच्छेत गृहधर्मं न च त्यजेत् ॥ ३.२४.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 24: पौष्करे, Verse 11

नैव गच्छेत दुःस्थानमप्राप्तो वेदसञ्चयम् ।

ऋचश्च सञ्चयः पूर्वः सामगानां च भारत ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 24: पौष्करे, Verse 12

ये चापि पुत्रिणो न स्युः श्रुत्यापि प्राप्नुयुः फलम् ।

ब्राह्मणास्तपसा श्रान्ता गुरोश्च परिचर्यया ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 24: पौष्करे, Verse 13

यस्य नैव श्रुतं ब्रह्म न गृहीतं विशाम्पते ।

काम तं धार्मिको राजा शूद्रकर्माणि कारयेत् ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 24: पौष्करे, Verse 14

अथवा नैव विद्येत यद् ब्रह्म नाद्रियेद् द्विजः ।

द्वाभ्यां तु श्रोत्रविषये मनः पूर्वं समाहितम् ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 24: पौष्करे, Verse 15

एवं सर्वेन्द्रियारम्भान् वेदपूर्वान् समाचरेत् ।

ब्राह्मणो भूतिसम्पन्नो य इच्छेद् भूतिमात्मनः ॥ १५॥