भविष्यपर्व, अध्याय 22: पौष्करे, Verse 1
प्रवृतिधर्मफलम् PravRitidharmaphalam दक्षेण स्वार्द्धाङ्गेन स्त्री भूत्वा अनेकाः कन्यानां उत्पत्तिः, तेषां धर्माय, कश्यपाय, सोमाय च दानं, कश्यपस्य दक्षकन्यानां च सन्ततीनां वर्णनं, देवलोके जन्मगृहीतॄणां योग्यता जनमेजय उवाच ।
साध्वहं श्रोतुमिच्छामि त्रेतायां ब्राह्मणोत्तम ।
यज्ज्ञात्वा सर्वविद्यानां परं पश्येयमव्ययम् ॥ १॥