भविष्यपर्व, अध्याय 21: पौष्करे, Verse 1
कर्ममार्गकथनम् KarmamArgakathanam क्षत्रयुगस्य प्रसङ्गे ज्ञानसिद्धानां ब्राह्मणानां वर्णनं, दक्षेण प्रजापतिना प्राणिनां चत्वारि वर्णानां च सृष्टिः, तेन स्वपुत्रेभ्यः धात्र्याः अन्तं ज्ञातुं आदेशः जनमेजय उवाच ।
श्रुतं ब्रह्मयुगं ब्रह्मन् युगानां प्रथमं युगम ।
क्षत्रस्यापि युगं ब्रह्मञ्छ्रोतुमिच्छाम्यहं प्रभो ॥ १॥