Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे

Containing 55 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 1

सगुणब्रह्मविदो युगधर्मकीर्तितम् SaguNabrahmavido yugadharmakIrtitam योगिनः स्थितिः, तस्य समक्षे भविष्ये प्रकटनीयानां विघ्नरूपाणां ऐश्वर्याणां वर्णनं जनमेजय उवाच ।

प्राग्वंशं श्रोतुमिच्छामि विस्तरेण महामुने ।

आद्ययोर्युगयोर्ब्रह्मन् ब्रह्मप्राप्तस्य सर्वशः ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 2

वैशम्पायन उवाच ।

श‍ृणु विस्तरशः सर्वं यन्मां पृच्छसि मेधया ।

उपपन्नेन मनसा दैवप्रत्ययसाधिना ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 3

ऋद्धि प्राप्तस्तु भगवान् योगात्मा ब्रह्मसम्भवः ।

भूतानां बहुलत्वं च चकारेहेश्वरः प्रभुः ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 4

स्थितो ब्रह्मासने ब्रह्मा विक्षिप्तः सहसा प्रभुः ।

अचलेनैव भावेन स्थाणुभूतेन भारत ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 5

रक्तश्च मोक्षविषये स च ज्ञानमये पदे ।

यस्मात् पदसहस्राणि प्रभवन्ति भवन्ति च ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 6

ब्रह्मयज्ञं तु यजते योगाद् वेदात्मकं सदा ।

ब्रह्मणो विपुलं ज्ञानमैश्वर्यं च प्रवर्तते ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 7

ततः प्रथममैश्वर्यं युञ्जानेन प्रवर्तितम् ।

ब्रह्मणा ब्रह्मभूतेन भूतानां हितमिच्छता ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 8

तदा त्वाकाशमैश्वर्यं युञ्जानस्य प्रवर्तते ।

ब्रह्मणो ब्रह्मभूतस्य निर्विकारेण कर्मणा ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 9

तदान्तरिक्षं सम्प्राप्तं निर्मलं ब्रह्म चाव्ययम् ।

संहारः सर्वभूतानां नराणां ब्रह्मवादिनाम् ।

ध्रुवमैश्वर्ययोगानां प्रतिपद्यन्ति देहिनः ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 10

आकाशैश्वर्यभूतेन संयुगे ब्रह्मवादिना ।

प्रवर्तमानमैश्वर्यं वायुभूतं करोति च ।

विकारैर्बहुभिः प्राप्तैः सम्पतद्भिर्महाबलैः ॥ ३.१९.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 11

एतैर्विकारैः संवृत्तैर्निरुद्धैश्च समन्ततः ।

ध्रुवमैश्वर्यमापन्नः सिद्धो भवति ब्राह्मणः ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 12

शरीरादभिनिष्क्रम्य आकाशेन प्रधावति ।

निरालम्बो निरालम्बान्नालम्ब्य मनसा ततः ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 13

ऐश्वर्यभूतो भूतात्मा चरन् दिवि न दृश्यते ।

चक्षुर्भिर्बहुभिर्लोकैः पुरन्दरसमैरपि ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 14

ओङ्कारं ये त्वधीयन्ते मनसा ब्रह्मसत्तमाः ।

विमुक्ताः सर्वकर्मभ्यस्ते तं पश्यन्ति साधवः ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 15

एतद्धि परमं ब्रह्म ब्राह्मणानां मनीषिणाम् ।

अन्तश्चरति भूतानां विद्धि चेतनया सह ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 16

एष शब्दो महानादः पुराणो ब्रह्मसम्भवः ।

वायुभूतोऽक्षरं प्राप्तो वदन्त्येवं द्विजातयः ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 17

अरूपी रूपसम्पन्नो धातुभिः सह सङ्गतः ।

अन्तश्चरति भूतेषु कामकारकरो वशी ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 18

एतत् पूर्वमनुध्याय मनसाऽऽपूरयन्निव ।

वेदात्मकं तदा यज्ञं चिन्तयन्तो मनीषिणः ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 19

ब्राह्मणाः शुचयो दान्ता यशोयुञ्जस्तदन्वयाः ।

ब्रह्मलोकं काङ्क्षमाणा वैष्णवं पदमुत्तमम् ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 20

पदहेतोः क्रियाः सर्वाः कुर्वन्ति विगतज्वराः ।

न ह्येते प्रसवादाने भवमिच्छन्ति भारत ॥ ३.१९.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 21

त्रिभिर्माल्योपहारैश्च प्रतिभावैश्च वै द्विजाः ।

यजन्ति परमात्मानं विष्णुं सत्यपराक्रमम् ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 22

यजनं विक्रमं चैव ब्रह्मपूर्वाः प्रचक्रिरे ।

ब्रह्मापि वैष्णवं तेजो वेदोक्तैर्वचनैर्नृप ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 23

ब्राह्मणैर्ब्रह्मविद्भिश्च ब्रह्मज्ञैर्ब्रह्मवादिभिः ।

शुचिभिः कर्मनिर्मुक्तैः सत्यव्रतपरायणैः ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 24

धातुभिर्मोक्षकाले च महात्मा सम्प्रदृश्यते ।

तदेव परमं ब्रह्म वैष्णवं परमाद्भुतम् ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 25

रसात्मकं तदैश्वर्यं विकारान्ते प्रदृश्यते ।

घोररूपा विकारास्ते व्यथयन्ति महात्मनः ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 26

सञ्छाद्यातीव तोयेन क्षुभ्यमाणो विचेतनः ।

ऊर्मिभिश्छाद्यते चैव शीतोष्णाभिर्विकारतः ॥ २६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 27

महार्णवगतश्चैव दह्यते न च मज्जते ।

मग्नश्चैव महानद्याः सलिले नैव सीदति ॥ २७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 28

सीदमानश्च सलिले स शीते पात्यते बलात् ।

व्यसनाच्छादनाच्चैव मुच्यमानो विचेतनः ॥ २८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 29

श्वभ्रे प्रपद्यमानश्च तोयेन परिषिच्यते ।

शुक्लवर्णेन बहुना स्रोतसा मूर्ध्नि सर्वशः ॥ २९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 19: पौष्करे, Verse 30

ऊर्ध्वं ज्योतिरवेक्षंश्च शुक्लैः पीतैश्च बाध्यते ।

वारिदपूर्णैः सुगम्भीरैर्विद्युद्भिरिव भासितैः ॥ ३.१९.३०॥