भविष्यपर्व, अध्याय 18: पौष्करे, Verse 1
योगोपसर्गकथनम् Yogopasargakathanam योगस्य उपसर्गाः, योगिनः विष्णुरूपेण स्थितिः, कर्मलयात् मुक्तिः, सकामकर्मिणां धूममार्गेण गतिः पुनरावृत्ति च, ज्ञानिनं योगीं च तत्त्वस्य साक्षात्कारं, ब्रह्मयुगस्य वर्णनं जनमेजय उवाच ।
उपसर्गं च योगं च ध्यातव्यं चैव यत्पदम् ।
न भूयः पुनरायाति मानुषं देहविग्रहम् ।
सिद्धिं सिद्धिगुणांश्चैव श्रोतुमिच्छामि तत्त्वतः ॥ १॥