Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे

Containing 69 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 1

कर्मफलपरिच्छेदाय योगवर्णनम् KarmaphalaparichChedAya yogavarNanam मैनाकस्य स्थितिः, मेरुपृष्ठे परमात्मतः ब्रह्मणः प्राकट्यं, मेरोः विशालत्वं, ब्रह्मणा सृष्टिः, ब्रह्मस्य एवं ब्रह्मणः स्वरूपस्य वर्णनं, गङ्गायाः प्रादुर्भावः, सोमस्य उत्पत्तिः, धर्मस्य पादाः, योगःसाधना, ऐश्वर्यात् हानिः, वेदानां प्राकट्यं, यज्ञपुरुषस्य वर्णनं, योगवेत्तोः महिमा, चित्तस्य उपलब्ध्यां कारणं, मोक्षसम्बन्धि कर्मकरणस्य विधानं, कर्मफलत्यागात् मुक्तिः वैशम्पायन उवाच ।

पृथिव्यां यत् कृतं छिद्रं तपनेन विवर्धता ।

तस्मिन्न्यस्तोऽथ मैनाकः स्वभावविहितोऽचलः ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 2

पर्वभिः पर्वतत्वं च लभते नाम संशितम् ।

अचलादचलत्वं च स्वभावान्मेरुरेव सः ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 3

तस्य पृष्ठे सुविस्तीर्णे नगस्य सुमहर्द्धिमान् ।

तस्मिंस्तु पुरुषो व्यक्तो वसति ज्योतिसम्भवः ।

विहितश्च स्वभावेन तेनैव परमात्मना ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 4

यत्तद् ब्रह्ममयं तेजो निहितं शिरसोऽन्तरे ।

तस्य ज्योतिर्मयं रूपं दान्तं पुरुषविग्रहम् ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 5

वदनादभिनिष्क्रान्तं ज्वलन्तमिव तेजसा ।

चतुर्भिर्वदनैर्युक्तं चतुर्भिश्च द्विजोत्तमैः ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 6

वक्त्रं व्रह्म समुद्भूतं ब्रह्मा ब्राह्मणपुङ्गवः ।

तदेवं तन्महद्भूतं पुनर्भावत्वमागतम् ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 7

उद्धृता पृथिवी देवी पुरस्तात्सलिलाशयात् ।

ब्रह्मत्वं ब्रह्मणः स्थानादलोको लोकतां गतः ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 8

पदसन्धौ ब्रह्मलोकं श‍ृङ्गं मेरोस्तदाभवत् ।

उच्छ्रितं योजनशतं सहस्रशतमेव च ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 9

एवमेव च विस्तारं चतुर्भिर्गुणितं गुणैः ।

अथवा नैव सङ्ख्यातुं शक्यं भूतेन केनचित् ।

समाः सहस्रैर्बहुभिरपि दिव्येन तेजसा ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 10

चतुर्भिः पार्श्वविस्तारैः शिलाभिरभिसंवृतैः ।

नगस्य यस्य राजेन्द्र विस्तारैः शतयोजनैः ॥ ३.१७.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 11

कोटिकोटीशतगुणैर्गुणितं ब्रह्मवादिभिः ।

योगयुक्तैः सदा सिद्धैर्नित्यं ब्रह्मपरायणैः ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 12

मरुद्भिः सह देवेन्द्रै रुद्रैर्वसुभिरेव च ।

आदित्यैर्विश्वसहितै ररक्ष वसुधाधिपान् ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 13

ररक्ष पृथिवीं चैव भगवान् विष्णुना सह ।

विवस्वद्वरुणाभ्यां च सङ्घातं गमितं नृप ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 14

तेन ब्राह्मेण वपुषा ब्रह्मप्राप्तेन भारत ।

यत्तद् विष्णुमयं तेजः सर्वत्र समतां गतम् ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 15

यत्तद् ब्रह्मेति वै प्रोक्तं ब्राह्मणैर्वेदपारगैः ।

नियमैर्बहुभिः प्राप्तैः सत्यव्रतपरायणैः ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 16

एवमेते त्रयो लोका ब्राह्मेऽहनि समाहिताः ।

अहनि ब्रह्म चाव्यक्तं व्यक्तं प्राणे प्रतिष्ठितम् ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 17

ब्रह्मणो नियतं कर्म प्रभावेण प्रचोदितम् ।

प्रवर्तमानं भावेन शश्वदच्छलवादिनाम् ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 18

एतद्धितमिति प्रोक्तं ब्राह्मणैर्वेदपारगैः ।

यदेकं ब्रह्मणः पादं दिष्टत्वं गमितं पदम् ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 19

बहुत्वाद् विप्रभावानां विश्वशब्दः प्रयुज्यते ।

ब्राह्मणैर्ब्रह्म भूतात्मा सत्यव्रतपरायणैः ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 20

विश्वरूपं मनोरूपं बुद्धिरूपं च मानयन् ।

एवं द्वन्द्वं स भगवान् प्रथमं मिथुनं सृजत् ॥ ३.१७.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 21

स एव भगवान् विश्वो देव्या सह सनातनः ।

विधाय विपुलान्भोगान्ब्रह्मा चरति सानुगः ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 22

स एष भगवान् ब्रह्मा नित्यं ब्रह्मविदां वरः ।

निर्वाणपदगन्तॄणामकिञ्चनपथैषिणाम् ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 23

सोमात्सोमः समुत्पन्नो धारासलिलविग्रहात् ।

ययाभिषिक्तो भूतानामाधिपत्ये महेश्वरः ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 24

अभिषिच्य च भूतेशं कृत्वा कर्म स्वभावतः ।

नदति स्म तदा नादं तेन सा ह्युच्यते नदी ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 25

सा ब्रह्मलोकं सम्भाव्य अभिभूय सहस्रधा ।

गां गता गगनाद् देवी सप्तधा प्रससार च ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 26

सहस्रधा च राजेन्द्र बहुधा च पुनः पुनः ।

इमं लोकममुं चैव भावयन् क्षरसम्भवम् ॥ २६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 27

ततो भूतानि रोहन्ति महाभूतफलानि च ।

ततः सर्वे क्रियारम्भाः प्रवर्तन्ते मनीषिणाम् ॥ २७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 28

चतुर्भिर्वदनैस्तस्य मुखपद्माद् विनिःसृता ।

तदाक्षरमयी सिद्धिर्दिशत्वं समुपागता ॥ २८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 29

तस्य ज्ञानमयं पुण्यं चतुष्पादं सनातनम् ।

पतित्वेनाभवद् देवो ब्रह्मा चात्र पितामहः ॥ २९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 17: पौष्करे, Verse 30

पादा धर्मस्य चत्वारो यैरिदं धार्यते जगत् ।

ब्रह्मचर्येण व्यक्तेन गृहस्थेन च पावने ॥ ३.१७.३०॥