Harivamsha Purana

भविष्यपर्व, अध्याय 15: पौष्करे

Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 15: पौष्करे, Verse 1

जनमजयप्रश्नः JanamajayaprashnaH जनमेजयेन महाभारतवर्णितस्य चरित्रस्य प्रशंसा जनमेजय उवाच ।

श्रुतं नः परमं ब्रह्मन् स्ववंशचरितं महत् ।

दिव्यमन्योन्यसम्भूतं मानितं बहुभिर्गुणैः ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 15: पौष्करे, Verse 2

छन्दोभिर्वृत्तसञ्जातैः समासैश्च सविस्तरैः ।

लघुभिर्मधुराभाषैर्ग्रथितं पदविग्रहैः ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 15: पौष्करे, Verse 3

त्रिवर्गेणाभिसम्पन्नं धर्मेणार्थेन भोगिनाम् ।

कामेन बहुरूपेण शरीरान्तर्गतेन च ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 15: पौष्करे, Verse 4

ब्राह्मणानां प्रभावैश्च योधानां च पराक्रमैः ।

वैरनिर्यातनैश्चैव प्रतिज्ञानां च पारगैः ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 15: पौष्करे, Verse 5

रिपुस्तवसुसम्पन्नैर्नानुबन्धः प्रचोदितः ।

वंशयोर्निर्विनाशाय नृपेण द्विज विग्रहात् ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 15: पौष्करे, Verse 6

ये च तस्मिन् महारौद्रे सङ्ग्रामे निहता नृपाः ।

तेषां सर्वाणि राष्ट्राणि पुत्राः सर्वे प्रपेदिरे ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 15: पौष्करे, Verse 7

कौरवः प्रथितो राजा भगवच्छासनानुगः ।

धर्मश्च बहुधा प्रोक्तस्त्रयाणां वर्णसम्पदाम् ।

शूराणामपि विख्यातः स्वर्गहेतुर्द्विजर्षभ ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 15: पौष्करे, Verse 8

अनुग्रहार्थं भूतानां नोत्सेकाय कथञ्चन ।

चतुर्णां वर्णसंज्ञानां पृयक्पृथगनेकधा ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 15: पौष्करे, Verse 9

गर्भवासं पतन्तश्च भूतानां सम्प्रबोधिताः ।

पृच्छन्तो देवसञ्चारं क्षीणे पुण्ये च कर्मणि ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 15: पौष्करे, Verse 10

दाने यश्चापि संयोगः स चापि बहुधा कृतः ।

द्वयोः संयोगविहितं मधु वाग्वचनं तयोः ॥ १०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 15: पौष्करे, Verse 11

न तच्छक्यं मयाऽऽख्यातुं भारताध्ययनं महत् ।

एकाहेन महान् ब्रह्मन्नपि दिव्येन चक्षुषा ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 15: पौष्करे, Verse 12

ब्रह्मणोऽह्नस्तु विस्तारं सङ्क्षेपं च सुसङ्ग्रहम् ।

श्रोतुमिच्छामि भगवन्महत्कौतूहलं हि मे ॥ १२॥