भविष्यपर्व, अध्याय 13: मधुकैटभवरप्रदाने, Verse 1
मधुकैटभवरप्रदानम् MadhukaiTabhavarapradAnam मधुकैटभयोः ब्रह्मणा सह संवादं, भगवता विष्णुना वधं वैशम्पायन उवाच ।
चतुर्युगादिसम्भूतौ सहस्रयुगपर्यये ।
विघ्नस्तमसि सम्भूतो मधुर्नाम महासुरः ॥ १॥
Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.
मधुकैटभवरप्रदानम् MadhukaiTabhavarapradAnam मधुकैटभयोः ब्रह्मणा सह संवादं, भगवता विष्णुना वधं वैशम्पायन उवाच ।
चतुर्युगादिसम्भूतौ सहस्रयुगपर्यये ।
विघ्नस्तमसि सम्भूतो मधुर्नाम महासुरः ॥ १॥
मधुकैटभयोः ब्रह्मणा सह संवादं, भगवता विष्णुना वधं वैशम्पायन उवाच ।
चतुर्युगादिसम्भूतौ सहस्रयुगपर्यये ।
विघ्नस्तमसि सम्भूतो मधुर्नाम महासुरः ॥ १॥
तस्यैव च सहायोऽन्यो भूतो रजसि कैटभः ।
तौ रजस्तमसाविष्टौ सम्भूतौ कामरूपिणौ ॥ २॥
एकार्णवजलं सर्वं क्षोभयन्तौ महासुरौ ।
कृष्णरक्ताम्बरधरौ श्वेतदीप्तोग्रदंष्ट्रिणौ ॥ ३॥
उभौ मदकटोदग्रौ केयूरवलयोज्ज्वलौ ।
महाविकृतताम्राक्षौ पीनोरस्कौ महाभुजौ ॥ ४॥
महच्छिरःसंहननौ जङ्गमाविव पर्वतौ ।
नीलमेघाभ्रसङ्काशावादित्यप्रतिमाननौ ॥ ५॥
विद्युदम्भोदताम्राभ्यां कराभ्यामतिभीषणौ ।
पादसञ्चारवेगाभ्यामुत्क्षिपन्ताविवार्णवम् ॥ ६॥
कम्पयन्ताविव हरिं शयानमरिसूदनम् ।
तौ तत्र विहरन्तौ स्म पुष्करे विश्वतोमुखम् ॥ ७॥
पश्यतां दीप्तवपुषं योगिनां श्रेष्ठमुत्तमम् ।
नारायणसमाज्ञप्तं सृजन्तमखिलाः प्रजाः ।
दैवतानि च विश्वानि मानसांश्च सुतानृषीन् ॥ ८॥
ततस्तावूचतुस्तत्र ब्रह्माणमसुरोत्तमौ ।
दृप्तौ युयुत्सुकौ क्रुद्धौ रोषसंरक्तलोचनौ ॥ ९॥
कस्त्वं पुष्करमध्यस्थः सितोष्णीषश्चतुर्मुखः ।
आवामगणयन् मोहादास्से त्वं विगतज्वरः ॥ १०॥
एह्यावयोर्बाहुयुद्धं प्रयच्छ कमलोद्भव ।
आवाभ्यामतिवीराभ्यां न शक्यं स्थातुमाहवे ॥ ११॥
कस्त्वं कश्चोद्भवस्तुभ्यं केन वासीह चोदितः ।
कः स्रष्टा कश्च वै गोप्ता केन नाम्नाभिधीयसे ॥ १२॥
ब्रह्मोवाच ।
यः क इत्युच्यते लोके ह्यविज्ञातः सहस्रशः ।
तत्सम्भवं योगवन्तं किं मां नाभ्यवगच्छथः ॥ १३॥
मधुकैटभावूचतुः नावयोः परमं लोके किञ्चिदस्ति महामते ।
आवाभ्यां छाद्यते विश्वं तमसा रजसा तथा ॥ १४॥
रजस्तमोमयावावां यतीनां दुःखलक्षणौ ।
छलकौ धर्मशीलानां दुस्तरौ सर्वदेहिनाम् ॥ १५॥
आवाभ्यां मुह्यते लोक उच्छ्रिताभ्यां युगे युगे ।
आवामर्थश्च कामश्च यज्ञाः सर्वपरिग्रहाः ॥ १६॥
सुखं यत्र मुदो यत्र यत्र श्रीः सन्नतिर्नयः ।
एषां यत्काङ्क्षितं चैव तत्तदावां विचिन्तय ॥ १७॥
ब्रह्मोवाच ।
यत् तद् योगवतां श्रेष्ठं यच्च पूर्वं मयार्चितम् ।
तत्समाधाय गुणवान्सत्त्वे चास्मि प्रतिष्ठितः ॥ १८॥
यत्परं योगयुक्तानामक्षरं सत्त्वमेव च ।
रजसस्तमसश्चैव यत्स्रष्टा जीवसम्भवः ॥ १९॥
यतो भूतानि जायन्ते सात्त्विकानीतराणि च ।
स एव युद्ध्वा समरे वशी वां शमयिष्यति ॥ २०॥
वैशम्पायन उवाच ।
ततः शयानं श्रीमन्तं बहुयोजनविस्तृतम् ।
पद्मनाभं हृषीकेशं प्रणम्यावोचतामुभौ ॥ २१॥
जानीवस्त्वां विश्वयोनिमेकं पुरुषसत्तमम् ।
तवोपासनहेत्वर्थमिदं नौ विद्धि कारणम् ॥ २२॥
अमोघदर्शनं सत्यं यतस्त्वां विदुरीश्वरम् ।
ततस्त्वामभितो देव कङ्क्षावः प्रतिवीक्षितुम् ॥ २३॥
तदिच्छावो वरं दत्तं त्वया ह्यावामरिन्दम ।
अमोघं दर्शनं देव नमस्तेऽस्त्वजितञ्जय ॥ २४॥
श्रीभगवानुवाच ।
तानिच्छथो द्रुतं ब्रूतं वरानसुरसत्तमौ ।
दत्तायुषौ मया भूयस्त्वहो जीवितुमिच्छथः ॥ २५॥
तस्माद् यदेष वां यत्नस्तत्प्राप्नुतं महाबलौ ।
वध्यौ भवन्तौ तु स्यातां तावित्येवाब्रवीद्धरिः ।
उभावपि महात्मानावूर्जितौ क्षतवर्जितौ ॥ २६॥
मधुकैटभावूचतुः यस्मिन्न कश्चिन्मृतवांस्तस्मिन्देशे विभो वधम् ।
इच्छावः पुत्रतां यातुं तव चैव सुराधिप ॥ २७॥
श्रीभगवानुवाच ।
बाढं सुतौ मे प्रवरौ भविष्ये कल्पसम्भवे ।
भविष्यथो न सन्देहः सत्यमेतद् ब्रवीमि वाम् ॥ २८॥
वैशम्पायन उवाच ।
वरं प्रदायाथ महासुराभ्यां सनातनो विश्ववरोत्तमो विभुः ।
रजस्तमोभ्यां भवभावनोपमौ ममन्थ तावूरुतले सुरारिहा ॥ २९॥