भविष्यपर्व, अध्याय 11: पौष्करे, Verse 1
महापद्मोत्पत्तिः MahApadmotpattiH परमात्मना भूतानां सृष्टिः, ब्रह्माणं प्रकटयितुं तस्य नाभ्या महत् पद्मस्य प्रादुर्भावं वैशम्पायन उवाच ।
आपवः स विभुर्भूत्वा कारयामास वै तपः ।
छादयित्वाऽऽत्मनो देहमात्मना कुम्भसम्भवः ॥ १॥