Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 1

कृतादियुगपरिमाणम् KRitAdiyugaparimANam सत्ययुगादीनां परिमाणानां वर्णनं वैशम्पायन उवाच ।

चत्वार्याहुः सहस्राणि वर्षाणां तु कृतं युगम् ।

तस्य तावच्छती सन्ध्या द्विगुणा जनमेजय ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 2

तत्र धर्मश्चतुष्पादो ह्यधर्मः पादविग्रहः ।

स्वधर्मनिरताः सन्तो यजन्ते चैव मानवाः ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 3

स्थिता धर्मपरा विप्रा राजवृत्तौ स्थिता नृपाः ।

कृष्यामभिरता वैश्याः शूद्राः शुश्रूषवस्तथा ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 4

सदा सत्यं तपश्चैव धर्मश्चैव विवर्धते ।

सद्भिराचरितं यच्च क्रियते ख्यायते च यत् ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 5

एतत् कृतयुगे वृत्तं सर्वेषामेव भारत ।

प्राणिनां धर्मबुद्धीनामपि चेन्नीचयोनिनाम् ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 6

त्रीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते ।

तस्य तावच्छती सन्ध्या द्विगुणा परिकीर्तिता ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 7

द्वाभ्यामधर्मः पादाभ्यां त्रिभिर्धर्मो व्यवस्थितः ।

तत्र सत्यं च सत्त्वं च कृते सर्वं प्रवर्तते ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 8

त्रेतायां विकृतिं यान्ति वर्णा लौल्येन संयुताः ।

चातुर्वर्ण्यस्य वैकृत्याद्यान्ति दौर्बल्यमाश्रिताः ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 8

इति श्रीमहाभारते खिलभागे हरिवंशे भविष्यपर्वणि पुष्करप्रादुर्भावे कृतादियुगपरिमाणवर्णने अष्टमोऽध्यायः ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 9

एष त्रेतायुगविधिर्विहितो देवनिर्मितः ।

द्वापरस्यापि या चेष्टा तामपि श्रोतुमर्हसि ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 10

द्वापरं द्वे सहस्रे तु वर्षाणां कुरुसत्तम ।

तस्य तावच्छती सन्ध्या द्विगुणा परिकीर्तिता ॥ ३.८.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 11

तत्राप्यर्थपरा विप्रा ज्ञानिनो रजसाऽऽवृताः ।

शठा नैष्कृतिकाः क्षुद्रा जायन्ते कुरुपुङ्गव ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 12

द्वाभ्यां धर्मः स्थितः पद्भ्यामधर्मस्त्रिभिरुत्थितः ।

विपर्ययं शनैर्यान्ति कृते ये धर्मसेतवः ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 13

ब्राह्मण्यभावा नश्यन्ति तथास्तिक्यं विशीर्यते ।

व्रतोपवासास्त्यज्यन्ते द्वापरे युगपर्यये ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 14

तथा वर्षसहस्रं तु वर्षाणां द्वे शते तथा ।

सन्ध्यया सह सङ्ख्यातं क्रूरं कलियुगं स्मृतम् ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 15

तत्राधर्मश्चतुष्पादः स्याद् धर्मः पादविग्रहः ।

कामनिष्ठास्तमश्छन्ना जायन्ते तत्र मानवाः ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 16

नैवोपवासकृत् कश्चिन्न च साधुर्न सत्यवाक् ।

आस्तिको ब्रह्मवक्ता वा नरो भवति वै तदा ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 17

अहङ्कारगृहीताश्च प्रक्षीणस्नेहबन्धनाः ।

विप्राः शूद्रसमाचाराः शूद्रास्त्वाचारलक्षणाः ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 18

दूषकास्त्वाश्रमाणां च वर्णानां चैव सङ्कराः ।

अगम्यास्वभिरंस्यन्ते वर्तन्त्येवं कलौ युगे ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 19

एवं द्वादशसाहस्रं तदेकं युगमुच्यते ।

तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 20

त्रय्यां चैव न सन्देहो युगान्ते जनमेजय ।

दिव्यं द्वादशसाहस्रं युगं तु कवयो विदुः ।

एतत्सहस्रपर्यन्तं तदहो ब्राह्ममुच्यते ॥ ३.८.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 21

ततोऽहनि गते तस्मिन् सर्वेषामेव देहिनाम् ।

शरीरनिर्वृतिं दृष्ट्वा रुद्रः संहारबुद्धिमान् ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 22

देवतानां च सर्वेषां ब्राह्मणानां महीपते ।

दैत्यानां मानवानां च यक्षगन्धर्वरक्षसाम् ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 23

देवर्षीणां ब्रह्मर्षीणां तथा राजर्षिणामपि ।

किन्नराणामप्सरसां भुजङ्गानां तथैव च ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 24

पर्वतानां नदीनां च पशूनां चैव भारत ।

तिर्यग्योनिगतानां च सत्त्वानां मृगपक्षिणाम् ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 25

महाभूतपतिर्देवः पञ्चभूतानि भूतकृत् ।

जगत्संहरणार्थाय कुरुते वैशसं महत् ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 8: अष्टमोऽध्यायः, Verse 26

भूत्वा सूर्यश्चक्षुषी चाददानो भूत्वा वायुः संहरन् प्राणिजातम् ।

भूत्वा वह्निर्दह्यते सर्वलोकान् मेघो भूत्वा भूय एवाभ्यवर्षत् ॥ २६॥