Harivamsha Purana

हरिवंशपर्व, अध्याय 19: पितृकल्पे

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 19: पितृकल्पे, Verse 1

पितृकल्पः - ३ योग-भ्रंश- निरूपण About subsidence of ascetic merit पितृकल्प- भरद्वाज के पुत्रों की कथा, योगभ्रष्ट पुरुषों की गति, योगसिद्धि के अधिकारी पुरुषों के लक्षण तथा मार्कण्डेय सनत्कुमार संवाद की समाप्ति मार्कण्डेय उवाच ।

आसन् पूर्वयुगे तात भरद्वाजात्मजा द्विजाः योगधर्ममनुप्राप्य भ्रष्टा दुश्चरितेन वै ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 19: पितृकल्पे, Verse 2

अपभ्रंशमनुप्राप्ता योगधर्मापचारिणः ।

महतः सरसः पारे मानसस्य विसंज्ञिताः ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 19: पितृकल्पे, Verse 3

तमेवार्थमनुध्यायन्तो नष्टमप्स्विव मोहिताः ।

अप्राप्य योगं ते सर्वे संयुक्ताः कालधर्मणा ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 19: पितृकल्पे, Verse 4

ततस्ते योगविभ्रष्टा देवेषु सुचिरोषिताः ।

जाताः कौशिकदायादाः कुरुक्षेत्रे नरर्षभाः ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 19: पितृकल्पे, Verse 5

हिंसया विहरिष्यन्तो धर्मं पितृकृतेन वै ।

ततस्ते पुनराजातिं भ्रष्टाः प्राप्स्यन्ति कुत्सिताम् ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 19: पितृकल्पे, Verse 6

तेषां पितृप्रसादेन पूर्वजातिकृतेन वै ।

स्मृतिरुत्पत्स्यते प्राप्य तां तां जतिं जुगुप्सिताम् ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 19: पितृकल्पे, Verse 7

ते धर्मचारिणो नित्यं भविष्यन्ति समाहिताः ।

ब्राह्मण्यं प्रतिलप्स्यन्ति ततो भूयः स्वकर्मणा ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 19: पितृकल्पे, Verse 8

ततश्च योगं प्राप्स्यन्ति पूर्वजातिकृतं पुनः ।

भूयः सिद्धिमनुप्राप्ताः स्थानं प्राप्स्यन्ति शाश्वतम् ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 19: पितृकल्पे, Verse 9

एवं धर्मे च ते बुद्धिर्भविष्यति पुनः पुनः ।

योगधर्मे च नितरां प्राप्स्यसे बुद्धिमुत्तमाम् ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 19: पितृकल्पे, Verse 10

योगो हि दुर्लभो नित्यमल्पप्रज्ञैः कदाचन ।

लब्ध्वापि नाशयन्त्येनं व्यसनैः कटुतामिताः ।

अधर्मेष्वेव वर्तन्ते प्रार्दयन्ते गुरूनपि ॥ १.१९.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 19: पितृकल्पे, Verse 11

याचन्ते न त्वयाच्यानि रक्षन्ति शरणागतान् ।

नावजानन्ति कृपणान् माद्यन्ते न धनोष्मणा ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 19: पितृकल्पे, Verse 12

युक्ताहारविहाराश्च युक्तचेष्टाः स्वकर्मसु ।

ध्यानाध्ययनयुक्ताश्च न नष्टानुगवेषिणः ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 19: पितृकल्पे, Verse 13

नोपभोगरता नित्यं न मांसमधुभक्षणाः ।

न च कामपरा नित्यं न विप्रासेविनस्तथा ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 19: पितृकल्पे, Verse 14

नानार्यसङ्कथासक्ता नालस्योपहतास्तथा ।

नात्यन्तमानसंसक्ता गोष्ठीषु निरतास्तथा ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 19: पितृकल्पे, Verse 15

प्राप्नुवन्ति नरा योगं योगो वै दुर्लभो भुवि ।

प्रशान्ताश्च जितक्रोधा मानाहङ्कारवर्जिताः ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 19: पितृकल्पे, Verse 16

कल्याणभाजनं ये तु ते भवन्ति यतव्रताः ।

एवंविधास्तु ते तात ब्राह्मणा ह्यभवंस्तदा ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 19: पितृकल्पे, Verse 17

स्मरन्ति ह्यात्मनो दोषं प्रमादकृतमेव तु ।

ध्यानाध्ययनयुक्ताश्च शान्ते वर्त्मनि संस्थिताः ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 19: पितृकल्पे, Verse 18

योगधर्माद्धि धर्मज्ञ न धर्मोऽस्ति विशेषवान् ।

वरिष्ठः सर्वधर्माणां तमेवाचर भार्गव ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 19: पितृकल्पे, Verse 19

कालस्य परिणामेन लघ्वाहारो जितेन्द्रियः ।

तत्परः प्रयतः श्राद्धी योगधर्ममवाप्स्यसि ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 19: पितृकल्पे, Verse 20

इत्युक्त्वा भगवान् देवस्तत्रैवान्तरधीयत ।

अष्टादशैव वर्षाणि त्वेकाहमिव मेऽभवत् ॥ १.१९.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 19: पितृकल्पे, Verse 21

उपासतस्तं देवेशं वर्षाण्यष्टादशैव मे ।

प्रसादात् तस्य देवस्य न ग्लानिरभवत्तदा ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 19: पितृकल्पे, Verse 22

न क्षुत्पिपासे कालं वा जानामि स्म तदानघ ।

पश्चाच्छिष्यसकाशात्तु कालः संविदितो मया ॥ २२॥