Harivamsha Purana

भविष्यपर्व, अध्याय 6: भविष्यान्तग्रन्थार्थप्रकाशो

Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 6: भविष्यान्तग्रन्थार्थप्रकाशो, Verse 1

एतद्ग्रन्थश्रवणफलम् Benefits from listening to this text जनमेजयस्य सन्तुष्टं भूत्वा राज्यशासनकरणं, अस्य ग्रन्थस्य पाठस्य श्रवणस्य च महिमा सौतिरुवाच ।

एवं स विश्वावसुनानुनीतः प्रसादमागम्य वपुष्टमायाः ।

चकार मिथ्या व्यतिशङ्कितात्मा शान्तिं परां मानवधर्महृष्टाम् ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 6: भविष्यान्तग्रन्थार्थप्रकाशो, Verse 2

श्रममभिविनिवर्त्य मानसं स समभिलषज्जनमेजयो यशः स्वम् ।

विषयमनुशशास धर्मबुद्धि- र्मुदितमना रमयन् वपुष्टमां ताम् ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 6: भविष्यान्तग्रन्थार्थप्रकाशो, Verse 3

न हि विरमति विप्रपूजना- न्न च विनिवर्तति यज्ञदानशीलात् ।

न विषयपरिरक्षणाच्च्युतोऽभू- न्न च परिगर्हति तां वपुष्टमां च ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 6: भविष्यान्तग्रन्थार्थप्रकाशो, Verse 4

विधिविहितमशक्यमन्यथा हि कर्तुं यदृषिरचिन्त्यतपाः पुराब्रवीत् सः ।

इति स नृपतिरात्मवांस्तदासौ तदनुविचिन्त्य बभूव वीतमन्युः ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 6: भविष्यान्तग्रन्थार्थप्रकाशो, Verse 5

इदं महाकाव्यमृषेर्महात्मनः पठन्नृणां पूज्यतमो भवेन्नरः ।

प्रकृष्टमायुः समवाप्य दुर्लभं लभेच्च सर्वज्ञफलं च केशवम् ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 6: भविष्यान्तग्रन्थार्थप्रकाशो, Verse 6

शतक्रतोः कल्मषविप्रमोक्षणं पठन्निदं मुच्यति कल्मषान्तरः ।

तथैव कामान् विविधान् समश्नुते ह्यवाप्तकामश्च चिराय नन्दति ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 6: भविष्यान्तग्रन्थार्थप्रकाशो, Verse 7

यथा हि पुष्पप्रभवं फलं द्रुमाः फलात्प्रजायन्ति पुनश्च पादपाः ।

तथा महर्षिप्रभवा इमा गिरः प्रवर्धयन्ते तमृषिं प्रवर्धिताः ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 6: भविष्यान्तग्रन्थार्थप्रकाशो, Verse 8

पुत्रानपुत्रो लभते सुवर्चस- श्च्युतः पुनर्विन्दति चात्मनः स्थितिम् ।

व्याधिं न चाप्नोति चिरं सबन्धनं क्रियां च पुण्यां लभते गुणान्वितः ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 6: भविष्यान्तग्रन्थार्थप्रकाशो, Verse 9

पतिमभिलभते च सत्सु कन्या श्रवणमुपेत्य शुभा मुनेस्तु वाचः ।

जनयति च सुतान् गुणैरुपेतान् रिपुजनमर्दनवीर्यशालिनश्च ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 6: भविष्यान्तग्रन्थार्थप्रकाशो, Verse 10

विजयति वसुधां च राजवृत्ति र्धनमतुलं लभते द्विषज्जयं च ।

विपुलमपि धनं लभेच्च वैश्यः सुगतिमियाच्छ्रवणाच्च शूद्रजातिः ॥ ३.६.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 6: भविष्यान्तग्रन्थार्थप्रकाशो, Verse 11

पुराणमेतच्चरितं महात्मना- मधीत्यबुद्धिं लभते च नैष्ठिकीम् ।

विहाय दुःखानि विमुक्तसङ्गः स वीतरागो विचरेद् वसुन्धराम् ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 6: भविष्यान्तग्रन्थार्थप्रकाशो, Verse 12

इत्येतदाख्यानमुदाहृतं वै प्रतिस्मरन्तो द्विजमण्डलेषु ।

स्थैर्येण धैर्येण पुनः स्मरन्तः सुखं भवन्तोऽनुचरन्तु लोकम् ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 6: भविष्यान्तग्रन्थार्थप्रकाशो, Verse 13

इति चरितमिदं महात्मना- मृषिकृतमद्भुतवीर्यकर्मणाम् ।

कथितमिदं हि समासविस्तरैः किमपरमिच्छसि किं ब्रवीमि ते ॥ १३॥