Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने

Containing 54 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 1

कलियुगवर्णनम् Description of kaliyuga कलियुगस्य वर्णनं जनमेजय उवाच ।

एवं विलुलिते लोके मनुष्याः केन पालिताः ।

निवत्स्यन्ति किमाचाराः किमाहारविहारिणः ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 2

किङ्कर्माणः किमीहन्तः किम्प्रमाणाः किमायुषः ।

कां च काष्ठां समासाद्य प्रपत्स्यन्ति कृतं युगम् ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 3

व्यास उवाच ।

अत ऊर्ध्वं च्युते धर्मे गुणहीनाः प्रजास्ततः ।

शीलव्यसनमासाद्य प्राप्स्यन्ते ह्रासमायुषः ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 4

आयुर्हान्या बलग्लानिर्बलग्लान्या विवर्णता ।

वैवर्ण्याद्व्याधिसम्पीडा निर्वेदो व्याधिपीडनात् ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 5

निर्वेदादात्मसम्बोधः सम्बोधाद् धर्मशीलता ।

एवं गत्वा परां काष्ठां प्रपत्स्यन्ति कृतं युगम् ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 6

उद्देशतो धर्मशीलाः केचिन्मध्यस्थतां गताः ।

विमर्षशीलाः केचित् तु हेतुवादकुतूहलाः ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 7

प्रत्यक्षमनुमानं च प्रमाणं चेति निश्चिताः ।

प्रमाणैकं करिष्यन्ति नेति पण्डितमानिनः ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 8

अप्रमाणं करिष्यन्ति वेदोक्तमपरे जनाः ।

तदा मुखभगाश्चैव भविष्यन्ति स्त्रियोऽपराः ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 9

नास्तिक्यपरमाश्चापि केचिद् धर्मविलोपकाः ।

भविष्यन्ति नरा मूढा मन्दाः पण्डितमानिनः ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 10

तदात्वमात्रे श्रद्धेयाः शास्त्रज्ञानबहिष्कृताः ।

दाम्भिकास्ते भविष्यन्ति वादशीलकुतूहलाः ॥ ३.४.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 11

तदा विचलिते धर्मे जनाः शेषपुरस्कृताः ।

शुभान्येवाचरिष्यन्ति दानसत्यसमन्विताः ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 12

सर्वभक्षो ह्यसङ्गुप्तो निर्गुणो निरपत्रपः ।

भविष्यति तदा लोकस्तत्कषायस्य लक्षणम् ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 13

विप्राणां शाश्वतीं वृत्तिं यदा वर्णावरा जनाः ।

प्रतिपत्स्यन्ति वृत्यर्थं तत् कषायस्य लक्षणम् ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 14

कषायोपप्लवे लोके ज्ञानविद्याप्रणाशने ।

सिद्धिं स्वल्पेन कालेन यास्यन्ति निरुपस्कृताः ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 15

महायुद्धं महावातं महावर्षं महाभयम् ।

भविष्यति युगे क्षीणे तत्कषायस्य लक्षणम् ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 16

विप्ररूपाणि रक्षांसि राजानः कर्णवेदिनः ।

पृथिवीमुपभोक्ष्यन्ति युगान्ते समुपस्थिते ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 17

निःस्वाध्यायवषट्कारा अनयाश्चाभिमानिनः ।

विप्राः क्रव्यादरूपेण सर्वभक्षा वृथाव्रताः ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 18

मूर्खाः स्वार्थपरा लुब्धाः क्षुद्राः क्षुद्रपरिच्छदा ॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 18

व्यवहारोपवृत्ताश्च च्युता धर्माच्च शाश्वतात् ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 19

हर्तारः पररत्नानां परदारापहारकाः ।

कामात्मानो दुरात्मानः सोपधाः प्रियसाहसाः ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 20

तेषु प्रभवमाणेषु तुल्यशीलेषु सर्वतः ।

अभाविनो भविष्यन्ति मुनयो बहुरूपिणः ॥ ३.४.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 21

उत्पन्ना ये कृतयुगे प्रधानपुरुषाश्रयाः ।

कथायोगेन तान्सर्वान्पूजयिष्यन्ति मानवाः ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 22

सस्यचौरा भविष्यन्ति तथा चैलापहारिणः ।

भक्ष्यभोज्यापहाराश्च करण्डानां च हारिणः ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 23

चौराश्चौरस्य हर्तारो हन्ता हन्तुर्भविष्यति ।

चौरैश्चौरक्षये चापि कृते क्षेमं भविष्यति ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 24

निःसारे क्षुभिते लोके निष्क्रिये व्यन्तरे स्थिते ।

नराः श्रयिष्यन्ति वनं करभारप्रपीडिताः ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 25

पितॄनाज्ञापयिष्यन्ति पुत्राः कर्मणि सर्वशः ।

स्नुषा श्वश्रूस्तथा चैव युगान्ते प्रत्युपस्थिते ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 26

वाक्छरैरर्दयिष्यन्ति गुरूञ्छिष्याः समन्ततः ।

यज्ञकर्मण्युपरते रक्षांसि श्वापदानि च ।

कीटमूषकसर्पाश्च धर्षयिष्यन्ति मानवान् ॥ २६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 27

क्षेमं सुभिक्षमारोग्यं सामग्र्यं वापि बन्धुषु ।

उद्देशतो नरश्रेष्ठ भविष्यन्ति युगक्षये ॥ २७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 28

स्वयम्पालाः स्वयञ्चौरा युगसम्भारसम्भृताः ।

मण्डलैः प्रचलिष्यन्ति देशे देशे पृथक्पृथक् ॥ २८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 4: कलियुगवर्णने, Verse 29

स्वदेशेभ्यः परिभ्रष्टा निःसाराः सह बन्धुभिः ।

नराः सर्वे भविष्यन्ति तदा कालपरिक्षयात् ॥ २९॥