Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने

Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 1

व्यासं प्रति राजसूयविषये जनमेजयप्रश्नः Janamejaya questions vyAsa about rAjasUya राज्ञः जनमेजयस्य अश्वमेधयज्ञानुष्ठानस्य विचारं, व्यासस्य आगमनं, राज्ञा तस्य सत्कारं, भवता पाण्डवानां राजसूययागस्य अनुष्ठानात् कथं निषेधं न कृतं इति जनमेजयस्य प्रश्नं, उत्तररूपेण व्यासेन कालस्य प्राबल्यस्य प्रतिपादनं शौनक उवाच ।

उक्तोऽयं हरिवंशस्ते पर्वाणि निखिलानि च ।

यथा पुरोक्तानि तथा व्यासशिष्येण धीमता ॥ १॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 2

तत्कथ्यमानममितमितिहाससमन्वितम् ।

प्रीणात्यस्मानमृतवत् सर्वपापविनाशनम् ॥ २॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 3

सुखश्राव्यतया धीर मनो ह्लादयतीव नः ।

जनमेजयस्तु नृपतिः श्रुत्वा चाख्यानमुत्तमम् ।

सौते किमकरोत् पश्चात् सर्पसत्रादनन्तरम् ॥ ३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 4

सौतिरुवाच ।

जनमेजयस्तु स नृपः श्रुत्वा चाख्यानमुत्तमम् ।

यदारभत् तदाख्यास्ये सर्पसत्रादनन्तरम् ॥ ४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 5

तस्मिन्सत्रे समाप्तेऽथ राजा पारीक्षितस्तदा ।

यष्टुं स वाजिमेधेन सम्भारानुपचक्रमे ॥ ५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 6

ऋत्विक्पुरोहिताचार्यानाहूयेदमुवाच ह ।

यक्ष्येऽहं वाजिमेधेन हय उत्सृज्यतामिति ॥ ६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 7

ततोऽस्य विज्ञाय चिकीर्षितं तदा कृष्णो महात्मा सहसाऽऽजगाम ।

पारीक्षितं द्रष्टुमदीनसत्त्वं द्वैपायनः सर्वपरावरज्ञः ॥ ७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 8

पारीक्षितस्तु नृपतिर्दृष्ट्वा तमृषिमागतम् ।

अर्घ्यपाद्यासनं दत्त्वा पूजयामास शास्त्रतः ॥ ८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 9

तौ चोपविष्टावभितः सदस्यास्तस्य शौनक ।

कथा बहुविधाश्चित्राश्चक्राते वेदसंहिताः ॥ ९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 10

ततः कथान्ते नृपतिर्नोदयामास तं मुनिम् ।

पितामहं पाण्डवानामात्मनः प्रपितामहम् ॥ ३.२.१०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 11

महाभारतमाख्यानं बह्वर्थं श्रुतिविस्तरम् ।

निमेषमात्रमपि मे सुखश्राव्यतया गतम् ॥ ११॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 12

विभूतिविस्तारकरं सर्वेषां वै यशस्करम् ।

त्वया सुविहितं ब्रह्मञ्शङ्खे क्षीरमिवाहितम् ॥ १२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 13

अमृतेन तु तृप्तिः स्याद् यथा स्वर्गसुखेन च ।

तथा तृप्तिं न गच्छामि श्रुत्वेमां भारतीं कथाम् ॥ १३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 14

अनुमान्य तु सर्वज्ञं पृच्छामि भगवन्नहम् ।

हेतुः कुरूणां नाशस्य राजसूयो मतो मम ॥ १४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 15

दुःसहानां यथा ध्वंसो राजन्यानामुपप्लवे ।

राजसूयं तथा मन्ये युद्धार्थमुपकल्पितम् ॥ १५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 16

राजसूयस्य नु सोमेन श्रूयते पूर्वमाहृतः ।

तस्यान्ते सुमहद् युद्धमभवत् तारकामयम् ॥ १६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 17

आहृतो वरुणेनाथ तस्यान्ते सुमहाक्रतोः ।

देवासुरं महायुद्धं सर्वभूतक्षयावहम् ॥ १७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 18

हरिश्चन्द्रश्च राजर्षिः क्रतुमेनमुपाहरत् ।

तत्राप्याडीबकं नाम युद्धं क्षत्रियनाशनम् ॥ १८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 19

ततोऽनन्तरमार्येण पाण्डवेनातिदुस्तरः ।

महाभारत आरम्भः सम्भूतोऽग्निरिव क्रतुः ॥ १९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 20

तदस्य मूलं युद्धस्य लोकक्षयकरस्य तु ।

राजसूयो महायज्ञः किमर्थं न निवारितः ॥ ३.२.२०॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 21

राजसूयो ह्यसंहार्यो यज्ञाङ्गैश्च दुरत्ययैः ।

मिथ्या प्रणीते यज्ञाङ्गे प्रजानां सङ्क्षयो ध्रुवः ॥ २१॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 22

भवानपि च सर्वेषां पूर्वेषां नः पितामहः ।

अतीतानागतज्ञश्च नाथश्चादिकरश्च नः ॥ २२॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 23

ते कथं भवता नेत्रा बुद्धिमन्तश्च्युता नयात् ।

अनाथा ह्यपराध्यन्ते कुनेतारश्च मानवाः ॥ २३॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 24

व्यास उवाच ।

कालेन विपरीतास्ते तव पूर्वपितामहाः ।

न मां भविष्यं पृच्छन्ति न चापृष्टो ब्रवीम्यहम् ॥ २४॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 25

सामर्थ्यं च न पश्यामि भविष्यस्य निवर्तने ।

परिहर्तुं न शक्या हि कालेन विहिता गतिः ॥ २५॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 26

त्वया त्विदमहं पृष्टो वक्ष्याम्यागन्तु भावि यत् ।

अतश्च बलवान् कालः श्रुत्वापि न करिष्यसि ॥ २६॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 27

न संरम्भान्न चारम्भान्न वै स्थास्यसि पौरुषे ।

लेखा हि काललिखिताः सर्वथा दुरतिक्रमाः ॥ २७॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 28

अश्वमेधः क्रतुः श्रेष्ठः क्षत्रियाणां परिश्रुतः ।

तेन भावेन ते यज्ञं वासवो धर्षयिष्यति ॥ २८॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 29

यदि तच्छक्यते राजन् परिहर्तुं कथञ्चन ।

दैवं पुरुषकारेण मा यजेथाश्च तं क्रतुम् ॥ २९॥

Harivamsha Purana

भविष्यपर्व, अध्याय 2: जनमेजयप्रश्ने, Verse 30

न चापराधः शक्रस्य नोपाध्यायगणस्य ते ।

तव वा यजमानस्य कालोऽत्र दुरतिक्रमः ॥ ३.२.३०॥