हरिवंशपर्व, अध्याय 128: उषाहरणसमाप्तौ, Verse 1
उषया सहानिरुद्धस्य विवाहः, उषाहरणसमाप्तिश्च Aniruddha marries uShA द्वारकायां उत्सवः, उषसः अन्तःपुरे प्रवेशं सत्कारं च, श्रीकृष्णस्य विष्णुपर्वस्य च महिमा, पर्वस्य उपसंहारं वैशम्पायन उवाच ।
अथाहुको महाबाहुः कृष्णं प्राह महाद्युतिः ।
हर्षादुत्फुल्लनयनः श्रूयतां यदुनन्दन ॥ १॥