हरिवंशपर्व, अध्याय 127: सप्तविंशत्यधिकशततमोऽध्यायः, Verse 1
ब्रह्मधस्य नागपाशमोचनं, कृष्णस्य वरुणालयगमनं, वरुणेन सह युद्धं, द्वारकाप्रत्यागमनं च Aniruddha freed, kRiShNa returns to dvAraka after a battle with varuNa अनिरुद्धस्य नागपाशतः मुक्तिः, तेन श्रीकृष्णादीनां वन्दनं, नारदस्य कथनेन तस्य वीर्यविवाहं, उषायाः विदायम, सर्वेषां द्वारकायां प्रस्थानम्, मार्गे श्रीकृष्णेन वरुणोपरि जयः, वरुणेन श्रीकृष्णस्य स्तुतिः पूजा च, श्रीकृष्णस्यागमनेन द्वारकावासिनां हर्षं, भगवतः आदेशात् पुरवासिभिः देवानां वन्दनं, इन्द्रेण श्रीकृष्णस्य प्रशंसा, सर्वेषां देवानां ऋषीणां च स्व स्व स्थाने गमनं वैशम्पायन उवाच ।
एवं वरान् बहून् प्राप्य बाणः प्रीतमनाऽभवत् ।
जगाम सह रुद्रेण महाकालत्वमागतः ॥ १॥