हरिवंशपर्व, अध्याय 126: उषाहरणे, Verse 1
कार्तिकेयापयानम्, बाणबाहुच्छेदनं, बाणस्य हराद्वरलाभादिकीर्तनं च KArtikeya beaten back, bANa's hands cut off and bANaa blessed with boons from shiva स्वामी कार्तिकेयस्य श्रीकृष्णेन सह युद्धे स्वामी कार्तिकेयस्य पराजयं, कोटव्या देव्या कार्तिकेयस्य रक्षणं, बाणासुरस्य श्रीकृष्णेन सह युद्धं, श्रीकृष्णेन बाणासुरस्य सहस्रभुजानां कर्तनं, महादेवेन बाणासुराय महाकालभवनस्य वरदानं जनमेजय उवाच ।
अपयाते ततो देवे कृष्णे चैव महात्मनि ।
पुनश्चासीत् कथं युद्धं परेषां लोमहर्षणम् ॥ १॥