हरिवंशपर्व, अध्याय 125: पञ्चविंशत्यधिकशततमोऽध्यायः, Verse 1
ब्रह्मवाक्यात्कृष्णबाणयोर्युद्धनिवृत्तिः, पितामहजिज्ञासया मार्कण्डेयकर्तृतं हरिहरमाहात्म्यकीर्तनं स्तवकथनं च Fighting stops between rudra and KRiShNa and hymn to harihara श्रीकृष्णकस्य जृम्भास्त्रेण भगवतः शङ्करस्य जृम्भायाः वशीभूतभवनं, ब्रह्मणा शिवं विष्णोः सह तस्य एकत्वस्य स्मारणं, ब्रह्मणः पृच्छाकरणोपरि मार्कण्डेयेन हरिहरस्य एकत्वं स्थापयित्वा माहात्म्यसहितं हरिहरात्मकस्य स्तोत्रस्य वर्णनं वैशम्पायन उवाच ।
अन्धकारीकृते लोके प्रदीप्ते त्र्यम्बके तथा ।
न नन्दी नापि च रथो न रुद्रः प्रत्यदृश्यत ॥ १॥