Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः

Containing 40 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 1

ज्वरश्च पराजयो वरलाभश्च Jvara defeated, gets a boon श्रीकृष्णात् पराजितस्य ज्वरस्य तस्य शरणे गमनम्, तस्मात् वरप्राप्तिः, तस्याज्ञां शिरोधार्यं कृत्वा रणभूमितः अपगमनं वैशम्पायन उवाच ।

मृतमित्यभिविज्ञाय ज्वरं शत्रुनिषूदनः ।

कृष्णो भुजबलाभ्यां तु चिक्षेपाथ महीतले ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 2

मुक्तमात्रः स बाहुभ्यां कृष्णदेहं विवेश ह ।

अमुक्त्वा विग्रहं तस्य कृष्णस्याप्रतिमौजसः ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 3

स ह्याविष्टस्तथा तेन ज्वरेणाप्रतिमौजसा ।

कृष्णः स्खलन्निव मुहुः क्षितौ गाढं व्यवर्तत ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 4

जृम्भते श्वसते चैव वल्गते च पुनः पुनः ।

रोमाञ्चोत्थितगात्रश्च निद्रया चाभिभूयते ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 5

ततः स्थैर्यं समालम्ब्य कृष्णः परपुरञ्जयः ।

विकुर्वति महायोगी जम्भमाणः पुनः पुनः ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 6

ज्वराभिभूतमात्मानं विज्ञाय पुरुषोत्तमः ।

सोऽसृजज्ज्वरमन्यं तु पूर्वज्वरविनाशनम् ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 7

घोरं वैष्णवमत्युग्रं सर्वप्राणिभयङ्करम् ।

संसृष्टवान् स तेजस्वी तं ज्वरं भीमविक्रमम् ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 8

ज्वरः कृष्णविसृष्टस्तु गृहीत्वा तं ज्वरं बलात् ।

कृष्णाय हृष्टः प्रायच्छत्तं जग्राह ततो हरिः ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 9

ततस्तं परमक्रुद्धो वासुदेवो महाबलः ।

स्वगात्रात् स्वज्वरेणैव निष्कासयत वीर्यवान् ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 10

आविध्य भूतले चैनं शतधा कर्तुमुद्यतः ।

व्याघोषत ज्वरस्तत्र भोः परित्रातुमर्हसि ॥ २.१२३.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 11

आविध्यमाने तस्मिंस्तु कृष्णेनामिततेजसा ।

अशरीरा ततो वाणी ह्यन्तरिक्षादभाषत ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 12

कृष्ण कृष्ण महाबाहो यदूनां नन्दिवर्धन ।

मा वधीर्ज्वरमेनं तु रक्षणीयस्त्वयानघ ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 13

इत्येवमुक्ते वचने तं मुमोच हरिः स्वयम् ।

भूतभव्यभविष्यस्य जगतः परमो गुरुः ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 14

कृष्णस्य पादयोर्मूर्ध्ना शरणं सोऽगमज्ज्वरः ।

एवं मुक्तो हृषीकेशं ज्वरो वाक्यमथाब्रवीत् ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 15

श‍ृणुष्व मम गोविन्द विज्ञाप्यं यदुनन्दन ।

यो मे मनोरथो देव तं त्वं कुरु महाभुज ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 16

अहमेको ज्वरस्तात नान्यो लोके ज्वरो भवेत् ।

त्वत्प्रसादाद्धि देवेश वरमेनं वृणोम्यहम् ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 17

देव उवाच ।

एवं भवतु भद्रं ते यथा त्वं ज्वर काङ्क्षसे ।

वरार्थिनां वरो देयो भवांश्च शरणं गतः ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 18

एक एव ज्वरो लोके भवानस्तु यथा पुरा ।

योऽयं मया ज्वरः सृष्टो मय्येवैष प्रलीयताम् ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 19

वैशम्पायन उवाच ।

एवमुक्ते तु वचने ज्वरं प्रति महायशाः ।

कृष्णः प्रहरतां श्रेष्ठः पुनर्वाक्यमुवाच ह ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 20

वासुदेव उवाच ।

श‍ृणुष्व ज्वर सन्देशं यथा लोके चरिष्यसि ।

सर्वजातिषु विश्रब्धं यथा स्थावरजङ्गमे ॥ २.१२३.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 21

त्रिधा विभज्य चात्मानं मत्प्रियं यदि काङ्क्षसे ।

चतुष्पादान् भजैकेन द्वितीयेन च स्थावरान् ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 22

तृतीयो यश्च ते भागो मानुषेषूपपत्स्यते ।

त्रिधाभूतं वपुः कृत्वा पक्षिषु त्वं भव ज्वर ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 23

चतुर्थो यस्तृतीयस्य भविष्यति स ते धुवम् ।

एकान्तरस्तृतीयस्तु स वै चातुर्थिको ज्वरः ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 24

मानुषेष्वभिभेदेन वस त्वं प्रविभज्य वै ।

जातिष्वथावशेषासु निवस त्वं श‍ृणुष्व मे ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 25

वृक्षेषु कीटरूपेण तथा सङ्कोचपत्रकः ।

पाण्डुपत्रश्च विख्यातः फलेष्वप्तुर्यमेव च ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 26

अपां तु नीलिकां विद्याच्छिखोद्भेदेन बर्हिणाम् ।

पद्मिन्यादौ हिमो भूत्वा पृथिव्यामपि चोषरः ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 27

गैरिकः पर्वतेष्वेव मत्प्रसादाद् भविष्यसि ।

गोष्वपस्मारको भूत्वा खोरकश्च भविष्यसि ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 28

एवं त्वं बहुरूपेण भविष्यसि महीतले ।

दर्शनात् स्पर्शनाच्चापि प्राणिनां वधमेष्यसि ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 29

ऋते देवमनुष्याणां नान्यस्त्वा विसहिष्यति ।

वैशम्पायन उवाच ।

कृष्णस्य वचनं श्रुत्वा ज्वरो हृष्टमना ह्यभूत् ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 123: त्रयोविंशत्यधिकशततमोऽध्यायः, Verse 30

प्रोवाच वचनं किञ्चित् प्रणमित्वा कृताञ्जलिः ।

ज्वर उवाच ।

सर्वजातिप्रभुत्वेन कृतो धन्योऽस्मि माधव ॥ २.१२३.३०॥