हरिवंशपर्व, अध्याय 121: कृष्णप्रयाणे, Verse 1
श्रुतहृतानिरुद्धपाशबन्धनस्य कृष्णस्य शोणितपुरागमनम् KRiShNa goes to shoNitapuram अनिरुद्धस्य अपहरणेन रनिवासे शोकं, श्रीकृष्णस्य यादवानां च चिन्ता, गुप्तचराणां नियोजनं तेषां विफलता च, नारदस्य आगमनं अनिरुद्धस्य समाचारनिवेदनं च, श्रीकृष्णेन गरुडस्य आवाहनं स्तवनं च, गरुडेन श्रीकृष्णस्य स्तुतिः, श्रीकृष्णस्य शोणितपुरं प्रस्थानं वैशम्पायन उवाच ।
ततोऽनिरुद्धस्य गृहे रुरुदुः सर्वयोषितः ।
प्रियं नाथमपश्यन्त्यः कुरर्य इव सङ्घशः ॥ १॥