Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे

Containing 98 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 1

उशायाः स्वप्नदर्शनमनिरुद्धानयनार्थं चित्रलेखाया द्वारकागमनम् च UshA's dream and chitralekhA's journey to dvAraka उषसः स्वप्ने प्रियतमेन सह समागमं, अनेन उषसः चिन्ता, सखीनां तां शिक्षणं, कुम्भाण्डकुमार्याः कथनेन उषसा चित्रलेखां आह्वयित्वा तां स्वकष्टस्य कथनं, चित्रलेखया निर्मितेभिः चित्रेभिः उषसा अनिरुद्धस्य प्रत्यभिज्ञानं, तं आनयने चित्रलेखायाः द्वारकां प्रति गमनं वैशम्पायन उवाच ।

तत्रस्थाः परमा नार्यश्चित्रेण परमाद्भुताः ।

ततो हर्म्ये शयानां तु वैशाखे मासि भामिनीम् ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 2

द्वादश्यां शुक्लपक्षस्य सखीगणवृतां तदा ।

यथोक्तः पुरुषः स्वप्ने रमयामास तां शुभाम् ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 3

विचेष्टमाना रुदती देव्या वचनचोदिता ।

सा स्वप्ने रमिता तेन स्त्रीभावं चापि लम्भिता ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 4

शोणिताक्ता प्ररुदती सहसैवोत्थिता निशि ।

तां तथा रुदतीं दृष्ट्वा सखी भयसमन्विता ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 5

चित्रलेखा वचः स्निग्धमुवाच परमाद्भुतम् ।

उषे मा भैः किमेवं त्वं रुदती परितप्यसे ।

बलेः सुतसुता च त्वं प्रख्याता किं भयान्विता ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 6

न भयं विद्यते लोके तव सुभ्रु विशेषतः ।

अभयं तव वामोरु पिता देवान्तको रणे ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 7

उत्तिष्ठोत्तिष्ठ भद्रं ते विषादं मा कृथाः शुभे ।

नैवंविधेषु वासेषु भयमस्ति वरानने ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 8

असकृद् देवसहितः शचीभर्ता सुरेश्वरः ।

अप्राप्त एव नगरं पित्रा ते मृदितो रणे ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 9

अयं देवसमूहस्य भयदश्च पिता तव ।

महासुरवरः श्रीमान् बलेः पुत्रो महाबलः ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 10

एवं साभिहिता सख्या बाणपुत्री यशस्विनी ।

स्वप्ने रूपं यथा दृष्टं न्यवेदयदनिन्दिता ॥ १०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 11

उषोवाच ।

एवं सन्धर्षिता साध्वी कथं जीवितुमुत्सहे ।

पितरं किं नु वक्ष्यामि देवशत्रुमरिन्दमम् ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 12

एवं सन्दूषणकरी वंशस्यास्य महौजसः ।

श्रेयो हि मरणं मह्यं न मे श्रेयोऽद्य जीवितम् ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 13

ईप्सितो वा यथा कोऽपि पुरुषोऽधिगतो हि मे ।

जाग्रतीव यथा चाहमवस्थैवं कृता मम ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 14

निशायां जाग्रतीवाहं नीता केन दशामिमाम् ।

कथमेवं कृता नाम कन्या जीवितुमुत्सहे ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 15

कुलोपक्रोशनकरी कुलाङ्गारी निराश्रया ।

जीवितुं न स्पृहेन्नारी साध्वीनामग्रतः स्थिता ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 16

इत्येवं बाष्पपूर्णाक्षी सखीजनवृता तदा ।

विललाप चिरं कालमुषा कमललोचना ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 17

अनाथवत् तां रुदतीं सख्यः सर्वा विचेतसः ।

ऊचुरश्रुपरीताक्षीमुषां सर्वाः समागताः ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 18

दुष्टेन मनसा देवि शुभं वा यदि वाशुभम् ।

क्रियते न च ते सुभ्रु किञ्चिद् दुष्टं मनः शुभे ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 19

प्रसभं दैवसंयोगाद् यदि भुक्तासि भामिनि ।

स्वप्नयोगेन कल्याणि व्रतलोपो न विद्यते ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 20

व्यभिचारेण ते देवि नास्ति कश्चिद् व्यतिक्रमः ।

न च स्वप्नकृतो दोषो मर्त्यलोकेऽस्ति सुन्दरि ॥ २०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 21

एवं विप्रर्षयो देवि धर्मज्ञाः कथयन्ति वै ।

मनसा चैव वाचा च कर्मणा च विशेषतः ।

दुष्टा या त्रिभिरेतैस्तु पापा सा प्रोच्यते बुधैः ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 22

न च ते दृश्यते भीरु मनः प्रचलितं सदा ।

कथं त्वं दोषसन्दुष्टा नियता ब्रह्मचारिणी ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 23

यदि सुप्ता सती साध्वी शुद्धभावा मनस्विनी ।

इमामवस्थां प्राप्ता त्वं नैव धर्मो विलुप्यते ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 24

यस्या दुष्टं मनः पूर्वं कर्मणा चोपपादितम् ।

तामाहुरसती नाम सती त्वमसि भामिनि ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 25

कुलजा रूपसम्पन्ना नियता ब्रह्मचारिणी ।

इमामवस्थां नीतासि कालो हि दुरतिक्रमः ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 26

इत्येवमुक्तां रुदतीं बाष्पेणावृतलोचनाम् ।

कुम्भाण्डदुहिता वाक्यं परमं त्विदमब्रवीत् ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 27

त्यज शोकंविशालाक्षि अपापा त्वं वरानने ।

श्रुतं मे यदिदं वाक्यं याथातथ्येन तच्छृणु ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 28

उषे यदुक्ता देव्यासि भर्तारं ध्यायती तदा ।

समीपे देवदेवस्य स्मर भामिनि तद् वचः ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 29

द्वादश्यां शुक्लपक्षस्य वैशाखे मासि यो निशि ।

हर्म्ये शयानां रुदतीं स्त्रीत्वं समुपनेष्यति ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 118: उषाहरणे, Verse 30

भविता स हि ते भर्ता शूरः शत्रुनिबर्हणः ।

इत्युवाच वचो हृष्टा देवी तव मनोगतम् ॥ ३०॥