हरिवंशपर्व, अध्याय 117: बाणयुद्धे, Verse 1
पार्वत्याः सकाशात् उषाया वरलाभः PArvatI blesses uShA with a boon शिवपार्वत्योः क्रीडाविहारं, पार्वत्या उषसं पतिसमागमस्य वरदानं, उषसः विरहव्यथा वर्णनं वैशम्पायन उवाच ।
क्रीडाविहारोपगतः कदाचिदभवद् भवः ।
देव्या सह नदीतीरे रम्ये श्रीमति स प्रभुः ॥ १॥