Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 1

गूढोद्घाटनम् KRiShNa divulges divine secret भगवतः श्रीकृष्णस्य अर्जुनं प्रति स्वयथार्थस्वरूपस्य परिचयदानं अर्जुन उवाच ।

ततः कृष्णो भोजयित्वा शतानि सुबहूनि च ।

विप्राणामृषिकल्पानां कृतकृत्योऽभवत् तदा ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 2

ततः सह मया भुक्त्वा वृष्णिभोजैश्च सर्वशः ।

विचित्राश्च कथा दिव्याः कथयामास भारत ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 3

ततः कथान्ते तत्राहमभिगम्य जनार्दनम् ।

अपृच्छं तद् यथावृत्तं कृष्णं यद् दृष्टवानहम् ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 4

कथं समुद्रः स्तब्धोदः कृतस्तु कमलेक्षण ।

पर्वतानां च विवरं कृतं तत् कथमच्युत ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 5

तमस्तच्च कथं घोरं घनं चक्रेण पाटितम् ।

तच्च यत्परमं तेजः प्रविष्टोऽसि कथं च तत् ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 6

किमर्थं तेन ते बालास्तदा चापहृताः प्रभो ।

यच्च ते दीर्घमध्वानं सङ्क्षिप्तं तत् कथं पुनः ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 7

कथं चाल्पेन कालेन नस्तद्गतागतम् ।

एतत् सर्वं यथावृत्तमाचक्ष्व मम केशव ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 8

वासुदेव उवाच ।

मद्दर्शनार्थं ते बाला हृतास्तेन महात्मना ।

विप्रार्थमेष्यते कृष्णो नागच्छेदन्यथेति ह ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 9

ब्रह्म तेजोमयं दिव्यं महद् यद् दृष्टवानसि ।

अहं स भरतश्रेष्ठ मत्तेजस्तत् सनातनम् ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 10

प्रकृतिः सा मम परा व्यक्ताव्यक्ता सनातनी ।

यां प्रविश्य भवन्तीह मुक्ता योगविदुत्तमाः ॥ २.११४.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 11

सा साङ्ख्यानां गतिः पार्थ योगिनां च तपस्विनाम् ।

तत् पदं परमं ब्रह्म सर्वं विभजते जगत् ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 12

मामेव तद् घनं तेजो ज्ञातुमर्हसि भारत ।

समुद्रः स्तब्धतोयोऽहमहं स्तम्भयिता जलम् ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 13

अहं ते पर्वताः सप्त ये दृष्टा विविधास्त्वया ।

पङ्कभूतं हि तिमिरं दृष्टवानसि यद्धि तत् ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 14

अहं तमो घनीभूतमहमेव च पाटकः ।

अहं च कालो भूतानां धर्मश्चाहं सनातनः ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 15

चन्द्रादित्यौ महाशैलाः सरितश्च सरांसि च ।

चतस्रश्च दिशः सर्वा ममैवात्मा चतुर्विधः ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 16

चातुर्वर्ण्यं मत्प्रसूतं चातुराश्रम्यमेव च ।

चातुर्विध्यस्य कर्ताहमिति बुध्यस्व भारत ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 17

अर्जुन उवाच ।

भगवन् सर्वभूतेश वेत्तुमिच्छामि ते प्रभो ।

पृच्छामि त्वां प्रपन्नोऽहं नमस्ते पुरुषोत्तम ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 18

वासुदेव उवाच ।

ब्रह्म च ब्राह्मणाश्चैव तपः सत्यं च भारत ।

उग्रं बृहत्तमं चैव मत्तस्तद् विद्धि पाण्डव ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 19

प्रियस्तेऽहं महाबाहो प्रियो मेऽसि धनञ्जय ।

तेन ते कथयिष्यामि नान्यथा वक्तुमुत्सहे ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 20

अहं यजूंषि सामानि ऋचश्चाथर्वणानि च ।

ऋषयो देवता यज्ञा मत्तेजो भरतर्षभ ॥ २.११४.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 21

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।

चन्द्रादित्यावहोरात्रं पक्षा मासास्तथर्तवः ।

मुहूर्ताश्च कलाश्चैव क्षणाः संवत्सरास्तथा ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 22

मन्त्राश्च विविधाः पार्थ यानि शास्त्राणि कानिचित् ।

विद्याश्च वेदितव्यं च मत्तः प्रादुर्भवन्ति हि ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 23

मन्मयं विद्धि कौन्तेय क्षयं सृष्टिं च भारत ।

सच्चासच्च ममैवात्मा सदसच्चैव यत्परम् ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 24

अर्जुन उवाच ।

एवमुक्तोऽस्मि कृष्णेन प्रीयमाणेन वै तदा ।

तथैव च मनो नित्यमभवन्मे जनार्दने ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 25

एतच्छ्रुतं च दृष्टं च माहात्म्यं केशवस्य मे ।

यन्मां पृच्छसि राजेन्द्र भूयांश्चातो जनार्दनः ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 26

वैशम्पायन उवाच ।

एतच्छ्रुत्वा कुरुश्रेष्ठो धर्मराजो युधिष्ठिरः ।

पूजयामास धर्मात्मा गोविन्दं पुरुषोत्तमम् ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 27

विस्मितश्चाभवद् राजा सह सर्वैः सहोदरैः ।

राजभिश्च समासीनैर्ये तत्रासन् समागताः ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 114: चतुर्दशाधिकशततमोऽध्यायः, Verse 114

इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वासुदेवमाहात्म्ये कृष्णार्जुनभाषणे चतुर्दशाधिकशततमोऽध्यायः ॥ ११४॥