Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये

Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 1

मृतब्राह्मणपुत्रस्य पुनः प्रत्यानयनम् BrAhmaNa's son restored श्रीकृष्णेन ब्राह्मणपुत्राणां आनयनं अर्जुन उवाच ।

ततः पर्वतजालानि सरितश्च वनानि च ।

अपश्यं समतिक्रम्य सागरं वरुणालयम् ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 2

ततोऽर्घ्यमुदधिः साक्षादुपनीय जनार्दनम् ।

स प्राञ्जलिः समुत्थाय किङ्करोमीति चाब्रवीत् ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 3

प्रतिगृह्य स तां पूजां तमुवाच जनार्दनः ।

रथपन्थानमिच्छामि त्वया दत्तं नदीपते ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 4

अथाब्रवीत् समुद्रस्तु प्राञ्जलिर्गरुडध्वजम् ।

प्रसीद भगवन् नैवमन्योऽप्येवं गमिष्यति ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 5

त्वयैव स्थापितः पूर्वमगाधोऽस्मि जनार्दन ।

त्वया प्रवर्तिते मार्गे यास्यामि गमनायताम् ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 6

अन्येऽप्येवं गमिष्यन्ति राजानो दर्पमोहिताः ।

एवं सञ्चिन्त्य गोविन्द यत् क्षमं तत् समाचर ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 7

वासुदेव उवाच ।

ब्राह्मणार्थं मदर्थ च कुरु सागर मद्वचः ।

मदृते न पुमान् कश्चिदन्यस्त्वां धर्षयिष्यति ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 8

अथाब्रवीत् समुद्रस्तु पुनरेव जनार्दनम् ।

अभिशापभयाद् भीतो बाढमेवं भविष्यति ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 9

शोषयाम्येष मार्गं ते येन त्वं कृष्ण यास्यसि ।

रथेन सह सूतेन सध्वजेन तु केशव ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 10

वासुदेव उवाच ।

मया दत्तो वरः पूर्वं न शोषं यास्यसीति ह ।

मानुषास्ते न जानीयुर्विविधान् रत्नसञ्चयान ॥ १०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 11

जलं स्तम्भय साधो त्वं ततो यास्याम्यहं रथी ।

न च कश्चित् प्रमाणं ते रत्नानां वेत्स्यते नरः ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 12

सागरेण तथेत्युक्ते प्रस्थिताः स्मो जलेन वै ।

स्तम्भितेन पथा भूमौ मणिवर्णेन भास्वता ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 13

ततोऽर्णवं समुत्तीर्य कुरूनप्युत्तरान् वयम् ।

क्षणेन समतिक्रान्ता गन्धमादनमेव च ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 14

ततस्तु पर्वताः सप्त केशवं समुपस्थिताः ।

जयन्तो वैजयन्तश्च नीलो रजतपर्वतः ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 15

महामेरुः सकैलास इन्द्रकूटश्च नामतः ।

बिभ्राणा वर्णरूपाणि विविधान्यद्भुतानि च ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 16

उपस्थाय च गोविन्दं किं कुर्मेत्यब्रुवंस्तदा ।

तांश्चैव प्रतिजग्राह विधिवन्मधुसूदनः ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 17

तानुवाच हृषीकेशः प्रणामावनतान् स्थितान् ।

विवरं गच्छतो मेऽद्य रथमार्गः प्रदीयताम् ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 18

ते कृष्णस्य वचः श्रुत्वा प्रतिगृह्य च पर्वताः ।

प्रददुः कामतो मार्गं गच्छतो भरतर्षभ ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 19

तत्रैवान्तर्हिताः सर्वे तदाश्चर्यतरं मम ।

असक्तं च रथो याति मेघज्ञालेष्विवांशुमान् ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 20

सप्त द्वीपान् ससिन्धुश्च सप्त सप्त गिरीनथ ।

लोकालोकं तथातीत्य विवेश सुमहत्तमः ॥ २०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 21

ततः कदाचिद् दुःखेन रथमूहुस्तुरङ्गमाः ।

पङ्कभूतं हि तिमिरं स्पर्शाद् विज्ञायते नृप ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 22

अथ पर्वतभूतं तत् तिमिरं समपद्यत ।

तदासाद्य महाराज निष्प्रयत्ना हयाः स्थिताः ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 23

ततश्चक्रेण गोविन्दः पाटयित्वा तमस्तदा ।

आकाशं दर्शयामास रथपन्थानमुत्तमम् ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 24

निष्क्रम्य तमसस्तस्मादाकाशे दर्शिते तदा ।

भविष्यामीति संज्ञा मे भयं च विगतं मम ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 25

ततस्तेजः प्रज्वलितमपश्यं तत् तदाम्बरे ।

सर्वलोकं समाविश्य स्थितं पुरुषविग्रहम् ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 26

तं प्रविष्टो हृषीकेशो दीप्तं तेजोनिधिं तदा ।

रथ एव स्थितश्चाहं स च ब्राह्मणसत्तमः ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 27

स मुहूर्तात् ततः कृष्णो निश्चक्राम तदा प्रभुः ।

चतुरो बालकान् गृह्य ब्राह्मणस्यात्मजांस्तदा ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 28

प्रददौ ब्राह्मणायाथ पुत्रान् सर्वाञ्जनार्दनः ।

त्रयः पूर्वं हृता ये च सद्योजातश्च बालकः ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 29

प्रहृष्टो ब्राह्मणस्तत्र पुत्रान् दृष्ट्वा पुनः प्रभो ।

अहं च परमप्रीतो विस्मितश्चाभवं तदा ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 113: वासुदेवमाहालये, Verse 30

ततो वयं पुनः सर्वे ब्राह्मणस्य च ते सुताः ।

यथा गता निवृत्ताः स्म तथैव भरतर्षभ ॥ ३०॥