Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये

Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 1

कृष्णस्योदिचीगमनः KRiShNa goes north ब्राह्मणबालकस्य रक्षणे अर्जुनस्य विफलता, ब्राह्मणेन अर्जुनस्य तिरस्कारं, तेषां श्रीकृष्णेन सह उत्तरां दिशायां गमनं अर्जुन उवाच ।

मुहूर्तेन वयं ग्रामं तं प्राप्य भरतर्षभ ।

विश्रान्तवाहनाः सर्वे निवासायोपसंस्थिताः ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 2

ततो ग्रामस्य मध्येऽहं निविष्टः कुरुनन्दन ।

समन्ताद् वृष्णिसैन्येन महता परिवारितः ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 3

ततः शकुनयो दीप्ता मृगाश्च क्रूरभाषिणः ।

दीप्तायां दिशि वाशन्तो भयमावेदयन्ति मे ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 4

सन्ध्यारागो जपावर्णो भानुमांश्चैव निष्प्रभः ।

पपात महती चोल्का पृथिवी चाप्यकम्पत ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 5

तान्समीक्ष्य महोत्पातान् दारुणाँल्लोमहर्षणान् ।

योगमाज्ञापयंस्तत्र जनस्योत्सुकचेतसः ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 6

युयुधानपुरोगाश्च वृष्ण्यन्धकमहारथाः ।

सर्वे युक्तरथाः सज्जाः स्वयं चाहं तथाभवम् ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 7

गतेऽर्धरात्रसमये ब्राह्मणो भयविक्लवः ।

उपागम्य भयादस्मानिदं वचनमब्रवीत् ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 8

कालोऽयं समनुप्राप्तो ब्राह्मण्याः प्रसवस्य मे ।

तथा भवन्तस्तिष्ठन्तु न भवेद् वञ्चनं यथा ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 9

मुहूर्तादेव चाश्रौषं कृपणं रुदितस्वनम् ।

तस्य विप्रस्य भवने ह्रियतेऽह्रियतेति च ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 10

अथाकाशे पुनर्वाचमश्रौषं बालकस्य वै ।

ऊँहेति ह्रियमाणस्य न च पश्यामि राक्षसम् ॥ २.११२.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 11

ततोऽस्माभिस्तदा तात शरवर्षैः समन्ततः ।

विष्टम्भिता दिशः सर्वा हृत एव स बालकः ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 12

ब्राह्मणोऽऽर्तस्वरं कृत्वा हृते तस्मिन् कुमारके ।

वाचः स परुषास्तीव्राः श्रावयामास मां तदा ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 13

वृष्णयो हतसङ्कल्पास्तथाहं नष्टचेतनः ।

मामेवं हि विशेषेण ब्राह्मणः प्रत्यभाषत ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 14

रक्षिष्यामीति चोक्तं ते न च रक्षितवानसि ।

श‍ृणु वाक्यमिदं शेषं यत् त्वमर्हसि दुर्मते ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 15

वृथा त्वं स्पर्धसे नित्यं कृष्णेनामितबुद्धिना ।

यदि स्यादिह गोविन्दो नैतदत्याहितं भवेत् ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 16

यथा चतुर्थं धर्मस्य रक्षिता लभते फलम् ।

पापस्यापि तथा मूढ भागं प्राप्नोत्यरक्षिता ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 17

रक्षिष्यामीति चोक्तं ते न च शक्तोऽसि रक्षितुम् ।

मोघं गाण्डीवमेतत्ते मोघं वीर्यं यशश्च ते ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 18

अकिञ्चिदुक्त्वा तं विप्रं ततोऽहं प्रस्थितस्तथा ।

सह वृष्ण्यन्धकसुतैर्यत्र कृष्णो महाद्युतिः ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 19

ततो द्वारवतीं गत्वा दृष्ट्वा मधुनिघातिनम् ।

व्रीडितः शोकसन्तप्तो गोविन्देनोपलक्षितः ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 20

स तु मां व्रीडितं दृष्ट्वा विनिन्दन् कृष्णसन्निधौ ।

मौढ्यं पश्यत मे योऽहं श्रद्दधे क्लीबकत्थनम् ॥ २.११२.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 21

तं प्रद्युम्नो नानिरुद्धो न रामो न च केशवः ।

यत्र शक्ताः परित्रातुं कोऽन्यस्तदवनेश्वरः ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 22

धिगर्जुनं वृथावादं धिगात्मश्लाघिनो धनुः ।

दैवोपसृष्टो यो मौर्ख्यादागच्छति च दुर्मतिः ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 23

एवं शपति विप्रर्षौ विद्यामास्थाय वैष्णवीम् ।

ययौ संयमिनीं वीरो यत्रास्ते भगवान् यमः ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 24

विप्रापत्यमचक्षाणस्तत ऐन्द्रीमगात् पुरीम् ।

आग्नेयीं नैरृतीं सौम्यामुदीचीं वारुणीं तथा ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 25

रसातलं नाकपृष्ठं धिष्ण्यान्यन्यान्युदायुधः ।

ततोऽलब्ध्वा द्विजसुतमनिस्तीर्णप्रतिश्रवः ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 26

अग्निं विविक्षुः कृष्णेन प्रद्युम्नेन निषेधितः ।

दर्शये द्विजसूनुं ते मावज्ञात्मानमात्मना ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 27

कीर्तिं त एते विपुलां स्थापयिष्यन्ति मानवाः ।

इति सम्भाष्य मां स्नेहात् समाश्वास्य च माधवः ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 28

सान्त्ययित्वा तु तं विप्रमिदं वचनमब्रवीत् ।

सुग्रीवं चैव शैब्यं च मेघपुष्पबलाहकौ ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 29

योजयाश्वानिति तदा दारुकं प्रत्यभाषत ।

आरोप्य ब्राह्मणं कृष्णो ह्यवरोप्य च दारुकम् ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 112: वासुदेवमाहात्म्ये, Verse 30

मामुवाच ततः शौरिः सारथ्यं क्रियतामिति ।

ततः समास्थाय रथं कृष्णोऽहं ब्राह्मणः स च ।

प्रयाताः स्म दिशं सौम्यामुदीचीं कौरवर्षभ ॥ २.११२.३०॥