Harivamsha Purana

हरिवंशपर्व, अध्याय 111: वासुदेवमाहात्म्ये

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 111: वासुदेवमाहात्म्ये, Verse 1

वासुदेवमाहात्म्यम् VAsudevamAhAtmyam श्रीकृष्णस्य महिमा - अर्जुनेन श्रीकृष्णस्य आज्ञां गृहीत्वा ब्राह्मणबालकस्य रक्षणाय गमनं जनमेजय उवाच ।

भूय एव महाबाहो कृष्णस्य जगतां पतेः ।

माहात्म्यं श्रोतुमिच्छामि परमं द्विजसत्तम ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 111: वासुदेवमाहात्म्ये, Verse 2

न हि मे तृप्तिरस्तीह श‍ृण्वतस्तस्य धीमतः ।

कर्मणामनुसन्तानं पुराणस्य महात्मनः ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 111: वासुदेवमाहात्म्ये, Verse 3

वैशम्पायन उवाच ।

नान्तः शक्यः प्रभावस्य वक्तुं वर्षशतैरपि ।

गोविन्दस्य महाराज श्रूयतामिदमद्भुतम् ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 111: वासुदेवमाहात्म्ये, Verse 4

शरतल्पे शयानेन भीष्मेण परिचोदितः ।

गाण्डीवधन्वा बीभत्सुर्माहात्म्यं केशवस्य यत् ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 111: वासुदेवमाहात्म्ये, Verse 5

राज्ञां मध्ये महाराज ज्येष्ठं भ्रातरमब्रवीत् ।

युधिष्ठिरं जितामित्रमिति तच्छ्रृणु कौरव ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 111: वासुदेवमाहात्म्ये, Verse 6

अर्जुन उवाच ।

पुराहं द्वारकां यातः सम्बन्धीनवलोककः ।

न्यवसं पूजितस्तत्र भोजवृष्ण्यन्धकोत्तमैः ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 111: वासुदेवमाहात्म्ये, Verse 7

ततः कदाचिद् धर्मात्मा दीक्षितो मधुसूदनः ।

एकाहेन महाबाहुः शास्त्रदृष्टेन कर्मणा ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 111: वासुदेवमाहात्म्ये, Verse 8

ततो दीक्षितमासीनमभिगम्य द्विजोत्तमः ।

कृष्णं विज्ञापयामास त्राहि त्राहीति चाब्रवीत् ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 111: वासुदेवमाहात्म्ये, Verse 9

ब्राह्मण उवाच ।

रक्षाधिकारो भवतः परित्रायस्व मां विभो ।

चतुर्थांशं हि धर्मस्य रक्षिता लभते फलम् ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 111: वासुदेवमाहात्म्ये, Verse 10

वासुदेव उवाच ।

न भेतव्यं द्विजश्रेष्ठ रक्षामि त्वां कुतो भयम् ।

ब्रूहि तत्त्वेन भद्रं ते यद्यपि स्यात्सुदुष्करम् ॥ २.१११.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 111: वासुदेवमाहात्म्ये, Verse 11

ब्राह्मण उवाच ।

जातो जातो महाबाहो पुत्रो मे ह्रियतेऽनघ ।

त्रयो हृताश्चतुर्थं त्वं कृष्ण रक्षितुमर्हसि ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 111: वासुदेवमाहात्म्ये, Verse 12

ब्राह्मण्याः सूतिकालोऽद्य तत्र रक्षा विधीयताम् ।

यथा ध्रियेदपत्यं मे तथा कुरु जनार्दन ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 111: वासुदेवमाहात्म्ये, Verse 13

अर्जुन उवाच ।

ततो मामाह गोविन्दो दीक्षितोऽहं क्रताविति ।

रक्षा च ब्राह्मणे कार्या सर्वावस्थागतैरपि ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 111: वासुदेवमाहात्म्ये, Verse 14

श्रुत्वाहमेवं कृष्णस्य वचोऽवोचं नराधिप ।

मां नियोजय गोविन्द रक्षिष्येऽहं द्विजं भयात् ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 111: वासुदेवमाहात्म्ये, Verse 15

इत्युक्तः स स्मितं कृत्वा मामुवाच जनार्दनः ।

रक्षसीत्येवमुक्तस्तु व्रीडितोऽस्मि नराधिप ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 111: वासुदेवमाहात्म्ये, Verse 16

ततो मां व्रीडितं मत्वा पुनराह जनार्दनः ।

गम्यतां कौरवश्रेष्ठ शक्यते यदि रक्षितुम् ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 111: वासुदेवमाहात्म्ये, Verse 17

त्वत्पुरोगाश्च रक्षन्तु वृष्ण्यन्धकमहारथाः ।

ऋते रामं महाबाहुं प्रद्युम्नं च महाबलम् ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 111: वासुदेवमाहात्म्ये, Verse 18

ततोऽहं वृष्णिसैन्येन महता परिवारितः ।

तमग्रतो द्विजं कृत्वा प्रयातः सह सेनया ॥ १८॥