Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं

Containing 90 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 1

धन्योपाख्यानम् NArada's quest for the extraordinary साम्बस्य उत्पत्तिः अस्त्रशिक्षा च, द्वारकायां में आगतानां राजानां मध्ये नारदेन भगवतः श्रीकृष्णस्य धन्यतायाः प्रतिपादनं वैशम्पायन उवाच ।

हृतो यदैव प्रद्युम्नः शाम्बरेणात्मघातिना ।

मासेऽस्मिन्नेव साम्बस्तु जाम्बवत्यामजायत ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 2

बाल्यात्प्रभृति रामेण शस्त्रेषु विनियोजितः ।

रामादनन्तरश्चैव मानितः सर्ववृष्णिभिः ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 3

जातमात्रे ततः कृष्णः शुभां तामवसत् पुरीम् ।

निहतामित्रसामन्तः शक्रोद्यानं यथामरः ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 4

यादवीं च श्रियं दृष्ट्वा स्वां श्रियं द्वेष्टि वासवः ।

जनार्दनभयाच्चैव न शान्तिं लेभिरे नृपाः ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 5

कस्यचित् त्वथ कालस्य पुरे वारणसाह्रये ! दुर्योधनस्य यज्ञे वै समीयुः सर्वपार्थिवाः ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 6

तां श्रुत्वा माधर्वीं लक्ष्मीं सपुत्रं च जनार्दनम् ।

पुरीं द्वारावतीं चैव निविष्टां सागरान्तरे ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 7

दूतैस्तैः कृतसङ्घानाः पृथिव्यां सर्वपार्थिवाः ।

श्रियं द्रष्टुं दृषीकेशमाजग्मुः कृष्णमन्दिम् ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 8

दुर्योधनमुखाः सर्वे धृतराष्ट्रवशानुगाः ।

पाण्डवप्रमुखाश्चैव धृष्टद्युम्नादयो नृपाः ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 9

पाण्ड्याश्चोलकलिङ्गेशा बाह्रीका द्राविडाः खशाः ।

अक्षौहिणीः प्रकर्षन्तो दृशा चाष्टौ च भूमिपाः ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 10

आजग्मुर्यादवपुरीं गोविन्दभुजपालिताम् ।

ते पर्वतं रैवतकं परिवार्यावनीश्वराः ॥ २.११०.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 11

विविशुर्योजनाख्यासु स्वासु स्वासु च भूमिषु ।

ततः श्रीमान् हृषीकेशाः सह् याद्वपुङ्गवैः ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 12

समीपं मानवेन्द्राणां निर्ययौ कमलेक्षणः ।

स तेषां नरदेवानां मध्यस्थेओ मधुसूदनः ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 14

व्यराजत यदुश्रेष्ठः शरदीव दिवाकरः ।

कृत्वा सिंहासने कृष्णः काञ्चने निषसाद् ह ।

राजानोऽपि यथास्थानं निषेदुर्विविधेष्वथ ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 15

सिंहासनेषु चित्रेषु पीठेषु च नराधिपाः ।

स यादवनरेन्द्राणां समाजः शुशुभे तदा ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 16

सुराणामसुराणां च सदसि ब्रह्मणो यथा ।

तेषां चित्राः कथास्तत्र प्रवृत्तास्तत्समागमे ।

यदूनां पार्थिवानां च केशवस्योपश्रृण्वतः ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 17

एतस्मिन्नन्तरे वायुर्ववौ मेघरवोपमः ।

तुमुलं दुर्दिनं चासीत् सविद्युत्स्तनयित्नुमत् ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 18

तद् दुर्दिनतलं भित्त्वा नारद्ः प्रत्यदृश्यत ।

सञ्चेष्टितजटाभारो वीणासक्तेन बाहुना ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 19

स पपात नरेन्द्राणां मध्ये सागरसन्निभः ।

नारदोऽग्निशिखाकारः श्रीमाञ्छक्रसखो मुनिः ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 20

तस्मिन् निपतिते भूमौ नारदे मुनिपुङ्गवे ।

तदद्भुतं महामेधं व्यपाकृष्यत दुर्दिनम् ॥ २.११०.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 21

सोऽवगाह्य नरेन्द्राणां मध्ये सागरसन्निभः ।

आसनस्थं यदुश्रेष्ठमुवाच मुनिरव्ययम् ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 22

आश्चर्यं खलु देवानामेकस्त्वं पुरुषोत्तमः ।

धन्यश्चासि महाबाहो लोकेनान्योऽस्ति कश्चन ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 23

एवमुक्तः स्मितं कृत्वा प्रत्युवाच मुनिं प्रभुः ।

आश्चर्यश्चैव धन्यश्च दक्षिणाभिः सहेत्यहम् ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 24

एवमुक्तो मुनिश्रेष्ठः प्राह मध्ये मद्दीभृताम् ।

कृष्ण पर्याप्तवाक्योऽस्मि गमिष्यामि यथागतम् ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 25

तं प्रस्थितमभिप्रेक्ष्य पार्थिवाः प्राहुरीश्वरम् ।

गुह्यं मन्त्रमजानन्तो वचनं नारदेरितम् ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 26

आश्चर्यमित्यभिहितं धन्योऽसीति च माधव ।

दक्षिणाभिः सहेत्येवं प्रत्युक्तेऽपि च नारदे ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 27

किमेतन्नाभिजानीमो दिव्यं मन्त्रपदं महत् ।

यदि श्राव्यमिदं कृष्ण श्रोतुमिच्छाम तत्त्वतः ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 28

तानुवाच ततः कृष्णः सर्वान् पार्थिवपुङ्गवान् ।

श्रोतव्यं नारदस्त्वेष द्विजो वः कथयिष्यति ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 29

ब्रूहि नारद तत्त्वार्थं श्रीतुकामा महीभुजः ।

यत् त्वयाभिहितं वाक्यं मया नु प्रतिभाषितम् ॥ २९॥

,

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 30

स पीठे काञ्चने शुभ्रे सूपविष्टः स्वलङ्कृतः ।

प्रभावं तस्य वन्द्यस्य प्रवक्तुमुपचक्रमे ॥ २.११०.३०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 110: धन्योपाख्यानं, Verse 31

नारद उवाच ।

श्रूयतां भो नृपश्रेष्ठा यावन्तः स्थ समागताः ।

अस्य कृष्णस्य महतो यथा पारमहं गतः ॥ ३१॥