Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो

Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 1

श्राद्धकल्पप्रसङ्गः Beatification of manes श्राद्धकल्प-जनमेजय द्वारा पिता का श्राद्ध तथा पितृस्वरूपनिर्णयसम्बन्धी प्रश्न, शन्तनु का अपने श्राद्ध में स्वयं हाथ बढाकर भीष्म से पिण्ड माँगना जनमेजय उवाच ।

कथं वै श्राद्धदेवत्वमादित्यस्य विवस्वतः ।

श्रोतुमिच्छामि विप्राग्र्य श्राद्धस्य च परं विधिम् ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 2

पितॄणामादिसर्गं च क एते पितरः स्मृताः ।

एवं च श्रुतमस्माभिः कथ्यमानं द्विजातिभिः ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 3

स्वर्गस्थाः पितरो ये च देवानामपि देवताः ।

इति वेदविदः प्राहुरेतदिच्छामि वेदितुम् ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 4

ये च तेषां गणाः प्रोक्ता यच्च तेषां बलं परम् ।

यथा च कृतमस्माभिः श्राद्धं प्रीणाति वै पितॄन् ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 5

प्रीताश्च पितरो ये स्म श्रेयसा योजयन्ति हि ।

एवं वेदितुमिच्छामि पितॄणां सर्गमुत्तमम् ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 6

वैशम्पायन उवाच ।

हन्त ते कथयिष्यामि पितॄणां सर्गमुत्तमम् ।

यथा च कृतमस्माभिः श्राद्धं प्रीणाति वै पितॄन् ।

प्रीताश्च पितरो ये स्म श्रेयसा योजयन्ति हि ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 7

मार्कण्डेयेन कथितं भीष्माय परिपृच्छते ।

अपृच्छद् धर्मराजो हि शरतल्पगतं पुरा ।

एवमेव पुरा प्रश्नं यन्मां त्वं परिपृच्छसि ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 8

तत् तेऽनुपूर्व्या वक्ष्यामि भीष्मेणोदाहृतं यथा ।

गीतं सनत्कुमारेण मार्कण्डेयाय पृच्छते ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 9

युधिष्ठिर उवाच ।

पुष्टिकामेन धर्मज्ञ कथं पुष्टिरवाप्यते ।

एतद्वै श्रोतुमिच्छामि किं कुर्वाणो न शोचति ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 10

भीष्म उवाच ।

श्राद्धैः प्रीणाति हि पितॄन् सर्वकामफलैस्तु यः ।

तत्परः प्रयतः श्राद्धी प्रेत्य चेह च मोदते ॥ १.१६.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 11

पितरो धर्मकामस्य प्रजाकामस्य च प्रजाम् ।

पुष्टिकामस्य पुष्टिं च प्रयच्छन्ति युधिष्ठिर ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 12

युधिष्ठिर उवाच ।

वर्तन्ते पितरः स्वर्गे केषाञ्चिन्नरके पुनः ।

प्राणिनां नियतं वापि कर्मजं फलमुच्यते ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 13

श्राद्धानि चैव कुर्वन्ति फलकामा सदा नराः ।

अभिसन्धाय पितरं पितुश्च पितरं तथा ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 14

पितुः पितामहं चैव त्रिषु पिण्डेषु नित्यशः ।

तानि श्राद्धानि दत्तानि कथं गच्छन्ति वै पितॄन् ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 15

कथं च शक्तास्ते दातुं नरकस्थाः फलं पुनः ।

के वा ते पितरोऽन्ये स्म कान् यजामो वयं पुनः ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 16

देवा अपि पितॄन्स्वर्गे यजन्तीति च नः श्रुतम् ।

एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 17

स भवान् कथयत्वेतां कथाममितबुद्धिमान् ।

यथा दत्तं पितॄणां वै तारणायेह कल्पते ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 18

भीष्म उवाच ।

अत्र ते कीर्तयिष्यामि यथाश्रुतमरिन्दम ।

ये च ते पितरोऽन्ये स्म यान्यजामो वयं पुनः ।

पित्रा मम पुरा गीतं लोकान्तरगतेन वै ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 19

श्राद्धकाले मम पितुर्मया पिण्डः समुद्यतः ।

तं पिता मम हस्तेन भित्त्वा भूमिमयाचत ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 20

हस्ताभरणपूर्णेन केयूराभरणेन च ।

रक्ताङ्गुलितलेनाथ यथा दृष्टः पुरा मया ॥ १.१६.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 21

नैष कल्पे विधिर्दृष्ट इति सञ्चिन्त्य चान्यहम् ।

कुशेष्वेव ततः पिण्डं दत्तवानविचारयन् ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 22

ततः पिता मे सुप्रीतो वाचा मधुरया तदा ।

उवाच भरतश्रेष्ठ प्रीयमाणो मयानघ ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 23

त्वया दायादवानस्मि कृतार्थोऽमुत्र चेह च ।

सत्पुत्रेण त्वया पुत्र धर्मज्ञेन विपश्चिता ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 24

मया तु तव जिज्ञासा प्रयुक्तैषा दृढव्रत ।

व्यवस्थानं तु धर्मेषु कर्तुं लोकस्य चानघ ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 25

यथा चतुर्थं धर्मस्य रक्षिता लभते फलम् ।

पापस्य हि तथा मूढः फलं प्राप्नोत्यरक्षिता ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 26

प्रमाणं यद्धि कुरुते धर्माचारेषु पार्थिवः ।

प्रजास्तदनुवर्तन्ते प्रमाणाचरितं सदा ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 27

त्वया च भरतश्रेष्ठ वेदधर्माश्च शाश्वताः ।

कृताः प्रमाणं प्रीतिश्च मम निर्वर्तितातुला ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 28

तस्मात् तवाहं सुप्रीतः प्रीत्या च वरमुत्तमम् ।

ददामि तं प्रतीच्छ त्वं त्रिषु लोकेषु दुर्लभम् ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 29

न ते प्रभविता मृत्युर्यावज्जीवितुमिच्छसि ।

त्वत्तोऽभ्यनुज्ञां सम्प्राप्य मृत्युः प्रभविता तव ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 16: श्राद्धकल्पप्रसङ्गो, Verse 30

किं वा ते प्रार्थितं भूयो ददामि वरमुत्तमम् ।

तद् ब्रूहि भरतश्रेष्ठ यत् ते मनसि वर्तते ॥ १.१६.३०॥