हरिवंशपर्व, अध्याय 103: वृष्णिवंशानुकीर्तने, Verse 1
वृष्णिवंशवर्णनम् Narration of the vRiShNi race श्रीकृष्णस्य सन्ततेः वर्णनं वृष्णिवंशस्य उपसंहारं च ।
जनमेजय उवाच ।
बहूनां स्त्रीसहस्राणामष्टौ भार्याः प्रकीर्तिताः ।
तासामपत्यान्यष्टानां भगवान् प्रब्रवीतु मे ॥ १॥