हरिवंशपर्व, अध्याय 99: द्वारकाप्रवेशनं, Verse 1
कृष्णस्य द्वारकाप्रवेशः KRiShNa enters dvAraka श्रीकृष्णस्य द्वारकायां अन्तःपुरे च प्रवेशं, मणिपर्वतस्य एवं पारिजातस्य यथोचिते स्थाने स्थापनं वैशम्पायन उवाच ।
एवमालोकयानः स द्वारकां वृषभेक्षणः ।
अपश्यत्स्वगृहं कृष्णः प्रासादशतशोभितम् ॥ १॥