हरिवंशपर्व, अध्याय 98: द्वारका, Verse 1
पुनर्विशेषतो द्वारवतीनिर्माणम् DvAravati beautified again इन्द्रस्याज्ञया विश्वकर्मणा पुनः परिष्कृतायाः द्वारकापुर्याः वर्णनं वैशम्पायन उवाच ।
ददर्शाथ पुरीं कृष्णो द्वारकां गरुडे स्थितः ।
देवसद्मप्रतीकाशां समन्तात् प्रतिनादिताम् ॥ १॥