हरिवंशपर्व, अध्याय 96: प्रद्युम्नदैत्ययुद्धे, Verse 1
प्रद्य्म्नदैत्ययुद्धम् Battle between pradyumna and the asura-s कश्यपेन निषिद्धोपि वज्रनाभस्य त्रिलोकविजयाय प्रस्थानं, श्रीकृष्ण-इन्द्राभ्यां प्रद्युम्नाय सन्देशदानं एवं तेषां सन्ततीनां प्रभावस्य उल्लेखं, दैत्येभिः प्रद्युम्नादीनां पुत्राणां बन्धनं, प्रभावत्यादिना स्वपतीन् असीन् प्रदत्वा युद्धाय प्रेषणम्, इन्द्रेण तेषां साहाय्यं एवं प्रद्युम्नस्य अद्भुतं पराक्रमम् ।
वैशम्पायन उवाच ।
सत्रावसाने च मुनेः कश्यपस्यातितेजसः ।
जग्मुर्देवासुराः स्वानि स्थानान्यमितविक्रमाः ॥ १॥