Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे

Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 1

प्रद्युम्तोगेथेर् विथ् देव-स् कश्यप अन्द् अदिति गो तो ब्रह्मनभाषणम् Pradyumna addresses prabhAvatI प्रद्युम्नेन प्रभावत्यां वर्षायाः वर्णनं कुर्वन्तं स्वकुलस्य परिचयदानं वैशम्पायन उवाच ।

नभो नभस्येऽथ निरीक्ष्य मासि कामस्तदा तोयदवृन्दकीर्णम् ।

प्रभावतीं चारुविशालनेत्रामुवाच पूर्णेन्दुनिकाशवक्त्रः ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 2

तवाननाभो वरगात्रि चन्द्रो न दृश्यते सुन्दरि चारुबिम्बः ।

त्वत्केशपाशप्रतिमैर्निरुद्धो बलाहकैश्चारुनिरन्तरोरु ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 3

सन्दृश्यते सुभ्रु तडिद् घनस्था त्वं हेमचार्वाभरणान्वितेव ।

मुञ्चन्ति धाराश्च घना नदन्तस्त्वद्धारयष्टेः सदृशा वराङ्गि ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 4

घनप्रदेशेषु बलाकपङक्तयस्त्वद्दन्तपङ्क्तिप्रतिमाविभान्ति ।

निमग्नपद्मानि सरित्सु सुभ्रु न भान्ति तोयानि रयाकुलानि ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 5

अमी घना वायुवशोपयाता बलाकमालामलचारुदन्ताः ।

अन्योन्यमभ्याहनितुं प्रवृत्ता वनेषु नागा इव शुक्लदन्ताः ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 6

धनुस्त्रिवर्णं वरगात्रि पश्य कृतं तवापाङ्गमिवाननस्थम् ।

विभूषयन्तं गगनं घनाश्च प्रहर्षणं कामिजनस्य कान्ते ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 7

घनान् नदन्तः प्रतिनर्दमानान् निरीक्ष्यसुश्रोणि शिखीन्प्रहृष्टान् ।

समादृतानुद्धतपिच्छभारान् प्रियाभिरामानुपनृत्यमानान् ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 8

हर्म्येषु चान्ये शशिपाण्डुरेषु यजन्ति सुश्रोणि मयूरसङ्घाः ।

मुहूर्तशोभामतिचारुरूपां दत्त्वा पतन्तो वलभीपुटेषु ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 9

प्रक्लिन्नपक्षास्तरुमस्तकेषु मुहूर्तचूडामणितां विधाय ।

प्रयान्ति भूमिं नवशाद्वलानामाशङ्कमाना धृतचारुदेहाः ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 10

प्रवाति धारान्तरनिःसृतश्च सुखोऽनिलश्चन्दनपङ्कशीतः ।

कदम्बसर्जार्जुनपुष्पभूतं समावहन् गन्धमनङ्गबन्धुम् ॥ २.९५.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 11

रतिश्रमस्वेदविनाशहेतुर्नवोदभारानयने च हेतुः ।

न मारुतः स्याद् यदि चारुगात्रि न मेघकालो मम वल्लभः स्यात् ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 12

एवंविधेषु प्रियसङ्गमेषु रतावसाने यदुपैति वायुः ।

रतिश्रमस्वेदहरः सुगन्धी ततः परं किं सुखमस्ति लोके ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 13

जलाप्लुतानीक्ष्य महानदीनां सुगात्रि हंसाः पुलिनानि हृष्टाः ।

गताः भ्रमं मानसवासलुब्धाः ससारसाः क्रौञ्चगणानुविद्धाः ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 14

न भान्ति नद्यो न सरांसि चैव हतत्विषीवायतचारुनेत्रे ।

गतेषु हंसेष्वथ सारसेषु रथाङ्गतुल्याह्वयनेषु चैव ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 15

भोगैकदेशेन शुभं शयानं ध्रुवं जगन्नाथमुपेन्द्रमीशम् ।

निद्राभ्युपेता वरकालतज्ज्ञा श्रियं प्रणम्योत्तरचारुरूपाम् ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 16

निद्रायमाणे भगवत्युपेन्द्रे मेघाम्बराक्रान्तनिशाकरोऽद्य ।

पद्मामलाभः कमलायताक्षि कृष्णस्य वक्त्रानुकृतिं करोति ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 17

कदम्बनीपार्जुनकेतकानां स्रजो ध्रुवं कृष्णमुपानयन्ति ।

पुष्पाणि चान्यान्यृतवः समस्ताः कृष्णात् प्रसादानभिकाङ्क्षमाणाः ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 18

नागाश्चरन्तो विषदिग्धवक्त्राः स्पृशन्ति पुष्पाण्यपि पादपान्यान् ।

पेपीयमानान् भ्रमरैर्जनानां कौतूहलं ते जनयन्त्यतीव ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 19

तोयातिभाराम्बुदवृन्दनद्धं नभः पतिष्यन्तमिवाभिवीक्ष्य ।

निपानगम्भीरमभिन्नवृष्टं मनोहरं चारुमुखस्तनोरु ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 20

बलाकमालाकुलमाल्यदाम्ना निरीक्ष रम्यं घनवृन्दमेतत् ।

सस्यानि भूमावभिवर्षमाणं जगद्धितार्थं विमलाङ्गयष्टे ॥ २.९५.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 21

जलावलम्बाम्बुदवृन्दकर्षी घनैर्घनान् योधयतीव वायुः ।

प्रवृत्तचक्रो नृपतिर्वनस्थान् गजान्गजैः स्वैरिव वीर्यदृप्तान् ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 22

अभौममम्भो विसृजन्ति मेघाः पूतं पवित्रं पवनैः सुगन्धि ।

हर्षावहं चातकबर्हिणानां वराण्डजानां जलदप्रियाणाम् ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 23

प्लवङ्गमः पोडशपक्षशायी विरौति गोष्ठः सहकामिनीभिः ।

ऋचो द्विजातिः प्रियसत्यधर्मा यथा सुशिष्यैः परिवार्यमाणः ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 24

गुणो महांस्तोयदकालजोऽयमबुद्धमेघस्वनभीषितानाम् ।

परिष्वजन्तः परिवर्द्धयन्ति विनापि शय्यासमयं प्रियाणाम् ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 25

दोषोऽयमेकः सलिलागमस्य मां प्रत्युदारान्वयवर्णशीले ।

न दृश्यते यत् तव वक्त्रतुल्यो धनग्रहग्रस्ततनुः शशाङ्कः ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 26

प्रदृश्यते भीरु यदा शशाङ्को घनान्तरस्थो जगतः प्रदीपः ।

तदानुपश्यन्ति जनाः प्रहृष्टा बन्धुं प्रवासादिव सन्निवृत्तम् ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 27

विलापसाक्षी प्रियहीनितानां सन्दृश्यते भीरु यदा शशाङ्कः ।

नेत्रोत्सवः प्रोषितकामुकानां दृष्ट्वैव कान्तं भवतीत्यवैमि ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 28

नेत्रोत्सवः कान्तसमागतानां दावाग्नितुल्यः प्रियहीनितानाम् ।

तेनैव देहेन वराङ्गनानां चन्द्रोऽपि तावत्प्रियविप्रियश्च ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 29

विनापि चन्द्रेण पुरे पितुस्ते यतः प्रभा चन्द्रगभस्तिगौरी ।

गुणागुणांश्चन्द्रमसा न वेद्मि यतस्ततोऽहं प्रशशंसयिष्ये ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 95: प्रद्युम्नभाषणे, Verse 30

अवाप यो ब्राह्मणराज्यमीड्यो दुरापमन्यैः सुकृतैस्तपोभिः ।

गायन्ति विप्राः पवमानसंज्ञं समागताः पर्वणि चाप्युदारम् ॥ २.९५.३०॥