Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे

Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 1

प्रभावतीपाणिग्रहणम् PrabhAvatI's marriage प्रद्युम्नप्रभावत्योः गान्धर्वविवाहं समागमं च, तदनन्तरं गदचन्द्रवत्योः एवं साम्बगुणवत्योः गान्धर्वविवाहं वैशम्पायन उवाच ।

आविष्टेयं मया बाला सर्वथेत्यवगम्य तु ।

कार्ष्णिर्हृष्टेन मनसा हंसीमिदमुवाच ह ॥ १॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 2

दैत्येन्द्रतनयां प्राप्तमवगच्छस्व मामिह ।

षट्पदैः सह षट्पादो भूत्वा माल्ये निलीय हि ॥ २॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 3

विधेयोऽस्मि प्रभावत्या यथेष्टं मयि वर्तताम् ।

इत्युक्त्वा दर्शयामास सुरूपो रूपमात्मनः ॥ ३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 4

तद्धर्म्यपृष्ठं प्रभया द्योतितं तस्य धीमतः ।

अभिभूता प्रभा चैव राजंश्चन्द्रोद्भवा शुभा ॥ ४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 5

प्रभावत्यास्तु तं दृष्ट्वा ववृधे कामसागरः ।

चन्द्रस्येवोदये प्राप्ते पर्वण्यां सरितां पतिः ॥ ५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 6

सलज्जाधोमुखी किञ्चित्किञ्चित्तिर्यगवेक्षिणी ।

प्रभावती तदा तस्थौ निश्चलं कमलेक्षणा ॥ ६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 7

करेणाधःप्रदेशे तां चारुभूषणभूषिताम् ।

स्पृष्ट्वोवाच वरारोहां रोमाञ्चिततनुस्ततः ॥ ७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 8

मनोरथशतैर्लब्धं किं पूर्णेन्दुसमप्रभम् ।

अधोमुखं मुखं कृत्वा न मां किञ्चित्प्रभाषसे ॥ ८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 9

प्रभोपमर्दं मा कार्षीर्वदनस्य वरानने ।

साध्वसं त्यज्यतां भीरु दासः साध्वनुगृह्यताम् ॥ ९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 10

न कालमिव पश्यामि भीरु भीरुत्वमुत्सृज ।

याचाम्येषोऽञ्जलिं कृत्वा प्राप्तकालं निबोध मे ॥ २.९४.१०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 11

गान्धर्वेण विवाहेन कुरुष्वानुग्रहं मम ।

देशकालानुरूपेण रूपेणाप्रतिमा सती ॥ ११॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 12

उपस्पृश्य ततो भैमो मणिस्थं जातवेदसम् ।

जुहाव समये वीरः पुष्पैर्मन्त्रानुदीरयन् ॥ १२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 13

जग्राहाथ करं तस्या वराभरणभूषितम् ।

चक्रे प्रदक्षिणं चैवं तं मणिस्थं हुताशनम् ॥ १३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 14

प्रजज्वाल स तेजस्वी मानयन्नच्युतात्मजम् ।

भगवाञ्जगतः साक्षी शुभस्याथाशुभस्य च ॥ १४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 15

उद्दिश्य दक्षिणां वीरो विप्राणां यदुनन्दनः ।

उवाच हंसीं द्वारस्थां तिष्ठावां रक्ष पक्षिणि ॥ १५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 16

तस्यां प्रणम्य यातायां कामस्तां चारुलोचनाम् ।

प्रहाय दक्षिणे हस्ते निनाय शयनोत्तमम् ॥ १६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 17

ऊरावेवोपवेश्यैनां सान्त्वयित्वा पुनः पुनः ।

चुचुम्ब शनकैर्गण्डं वासयन् मुखमारुतैः ॥ १७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 18

ततोऽस्याश्च पपौ वक्त्रपद्मं मधुकरो यथा ।

आलिलिङ्गे च सुश्रोणीं क्रमेण रतिकोविदः ॥ १८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 19

अरीरमद् रहस्येनां न चोद्वेजितवांस्तदा ।

अपकृष्टं चरत्यर्थं रतिकार्यविशारदः ।

उवास स तया सार्द्धं रमन् कृष्णसुतः प्रभुः ॥ १९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 20

अरुणोदयकाले च ययौ यत्र नटालयम् ।

अकामया प्रभावत्या कथञ्चित्स विसर्जितः ॥ २.९४.२०॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 21

तामेव मनसा कान्तां कान्तरूपां समुद्वहन् ।

त ऊषुर्नटवेषेण कार्यार्थं भैमवंशजाः ॥ २१॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 22

प्रतीक्षन्तस्तदा वाक्यमिन्द्रकेशवयोस्तदा ।

उद्योगं वज्रनाभस्य त्रैलोक्यविजयं प्रति ॥ २२॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 23

प्रतीक्षन्तो महात्मानो गुह्यसंरक्षणे रताः ।

कश्यपस्य मुनेः सत्रं यावत् तावन्नराधिप ॥ २३॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 24

देवासुराणां सर्वेषामविरोधो महात्मनाम् ।

त्रैलोक्यविजयार्थाय यततां धर्मचारिणाम् ॥ २४॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 25

एवं कालं प्रतीक्षाणां वसतां तत्र धीमताम् ।

सम्प्राप्तः प्रावृषो रम्यः सर्वभूतमनोहरः ॥ २५॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 26

अहर्निशं च वृत्तान्तं प्रयच्छन्ति मनोजवाः ।

शक्रकेशवयोर्हंसाः कुमाराणां महात्मनाम् ॥ २६॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 27

रेमे सह प्रभावत्या प्रद्युम्नश्चानुरूपया ।

रात्रौ रात्रौ महातेजा धार्तराष्ट्राभिरक्षितः ॥ २७॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 28

तैर्हि वज्रपुरं हंसैर्वसद्भिर्वासवाज्ञया ।

व्याप्तं नृप नटांस्तांश्च न विदुः कालमोहिताः ॥ २८॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 29

दिवापि रौक्मिणेयस्तु प्रभावत्या नृपालये ।

तिष्ठत्यन्तर्हितो वीरो हंससङ्घाभिरक्षितः ॥ २९॥

Harivamsha Purana

हरिवंशपर्व, अध्याय 94: प्रभावतीपाणिग्रहणे, Verse 30

माययास्य प्रतिच्छाया दृश्यते हि नटालये ।

देहार्धेन तु कौरव्य सिषेवेऽसौ प्रभावतीम् ॥ २.९४.३०॥